SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ दण्डमातृका (१) सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यं चौर्योपकरणं विना । मिता. २।३०२ (२) आयुधजीविनामायुधानि, वाह्यादीन् हस्त्यश्वरथगवादींस्तज्जीविनां, वेश्यानामाभरणानि, वाद्यातोद्यानि वीणामुरवादीनि तज्जीविनां, येन जीवन्त्युपकरणेन शिल्पिनः तेषां यद् यस्योपकरणं कुम्भकारस्य चक्रादि, तक्ष्णो वास्यादि, एवमादीन्यन्यान्यन्येषां सर्वस्वहरणेsपि प्राप्ते न राजा हरेत् । किं पुनरन्यस्मिन्न पराधे । एतैर्विना न जीवन्ति, तस्माद् वधादर्वाङ् न हर्तव्यानि । नाभा. १९।११-१२ ब्राह्मणस्य विशेषार्हतास्थानानि ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः । प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ॥ (१) अपरीहारोऽदण्डः, राज्ञोऽमत आसनमुपवेशनं राज्ञे प्रातरात्मदर्शनम् । विर. ६५९ (२) सर्वावस्थायां दर्शनं प्रति ब्राह्मणस्यापरीहारः । अजघन्यासनमुत्तमासनमग्रतः । जघन्यासनमित्यन्ये, आत्मासनान्निकृष्टमिति । प्रातस्तु सर्वेभ्यः प्रथमं दर्शनं, पुण्य त्वात् तेषां दर्शनस्य । बालवृद्धानां यूनां चाभिवादनम् । नाभा. १९।३३ अयं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः भैक्षहेतोः परागारे प्रवेशश्वानिवारितः ॥ नवसस्यानामग्रग्रहणं, गच्छतो ब्राह्मणस्य अग्रे मार्गदानं, भैक्षहेतोः परागारेष्वनिवारितः प्रवेशश्व, निवारणे त्वपराध एव । विर. ६५९ समित्पुष्पोदकादाने ध्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया ।। (१) नासं. १९३३; नास्मृ. २०१३५ ऽजघ (राज) पां (भ्यः); विर. ६५९ स्या (स्य) ऽजघन्या ( राज्ञश्चा) षां (भ्यः); दवि ४३ प्रथमपादः . (२) नासं. १९३४६ नास्मृ. २० ३६ नवे (नव) स्ये (प्त) श्वा (स्त्व); विर. ६५९; दवि.४३ क्ष (क्ष्य ) प्रथमपादं विना; सेतु. ३१४ क्ष (क्ष्य) उत्त. ५९१ अस्तेयमचौर्यमतएवानपराधः स्वपरिग्रहात् परिग्रहः विषयसमिदादीनामप्यादानात् । अनाधृष्यः परेभ्यश्च शत्रुभ्योऽप्यन्यतो ब्राह्मणो न दण्ड्यः । संभाषश्च परस्त्रिया इति भावादोषमात्राभिप्रायम् । विर. ६५९-६० (३) नासं. १९३५; नास्मृ. २०३७ दानेष्व (दीनां ह्य) हात (हम् ) नाक्षेप: (नपेक्षः); विर. ६५९ ष्पोदका ( पकुशा ) सप (स्वप) क्षेपः (धृष्यः) या (याः); दवि. ४३ प्पोदका नंदीष्ववेतनस्तारः पूर्वमुत्तारणं तथा । तरेष्वशुल्कदानं च न चेद् वाणिज्यमस्य तत् ॥ अवेतनो भृतिशून्यः, तारः पारगमनम् । पूर्वमब्राह्मणेभ्यः, तरेषु पारं प्रापणीयेषु वस्त्रादिषु, अशुल्कदानं राजग्राह्यादानम् । यदि तस्य ब्राह्मणस्य न वस्त्रादि वाणिज्यार्थं स्यात् । विर. ६६० वर्तमानोऽध्वनि श्रान्तो गृहनेकाशनः स्वयम् | ब्राह्मणो नापराध्नोति द्वाविक्षु पञ्च मूलिकान् ॥ अध्वनि श्रान्तोऽननुज्ञाप्य स्वामिनं स्वयमेवात्मांश गृह्णन् निस्स्वो ब्राह्मणो नापराध्यति इक्षुद्वयं पञ्च मूलि - कानिति । नाभा. १९/३७ बृहस्पतिः राज्ञः सर्वे दण्ड्याः ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः । धर्माद्विचलिता दण्ड्या निर्वास्या राजहिंसकाः ॥ दण्डसंज्ञा : कार्षापणसहस्रं तु दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ तत्र कार्षापण पण एव द्वयोः पर्यायत्वात् । अत्र चतुर्विंशतिरित्यादौ सर्वत्र संख्येयाकाङ्क्षायां पणो (ष्पकुशा) नाक्षेप: (नध्यक्षः) या (या:); सेतु . ३१४ ष्पोदका (ष्पकुशा) उत्त. (१) नालं. १९ । ३६ तार (त्तर) तरे (करे); नास्मृ. २० ३८ (तरेष्वशुल्कदानं च वणिज्यायां भवेत्स्थितिः); विर. ६५९स्ता (न्ता); दवि. ९६ तरे (पण्ये); सेतु. ३१४. (२) नासं.१९ । ३ ७; नास्मृ. २० । ३९ नेका (नन) ध्नोति (धी स्यात्) पञ्च मूलिकान् (द्वे च मूलके); समु. १५२ नेका (नन) पञ्च मूलिकान् (द्वे च मूलके ). (३) स्मृच. १२६; विर. ६२८ त्याः पुत्राः (त्यपुत्र) याज्ञवल्क्यः; पमा.२०७ हिंसकाः (भिः पुरात्) मनु बृहस्पती; दवि. ५७ विरवत् याज्ञवल्क्यः; सेतु. ३२५ विरवत् याश वल्क्यः; प्रका. ७९; समु. ६९. (४) पमा. १५९; स्मृसा.८३ स्रं (स्रः) ण्ड उ (ण्डस्तू); स्मृचि. ३७; दवि. २३ पू.; समु. ७०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy