________________
यवहारकाण्डम्
३५६
शतसंभावना अस्त्यस्यापि शतग्रहणप्रयोजनमिति । अथैवमाह - नास्त्येव मम तदा तद्देशप्राप्तिर्देशान्तर स्थत्वात् । सा प्राप्तिस्तद्देशसंनिधानेन निराक्रियतेअस्त्यनयोस्तद्देशप्राप्तिरिति । अथैवमाह - नैतानि ममाक्षराणि, नापि साक्षिलेखकयोरिति । तदा यदि कश्चिद् धार्मिको असाधारणेन चिह्नेन तान्यक्षराणि प्रत्यभिजानाति, तदा चिह्नमपि निर्णायकम् । एवमसाधारणमपि पुत्रादिकं चिह्नं निर्णायकमिति बोध्यम् । यत्र द्रव्यसंख्यास्वरूप निर्देशस्थाने पूर्वाक्षराणि विलुप्यान्या द्रव्य - संख्या कृतेति तत्र संबन्धेन निर्णयः । यान्यक्षराणि कूटत्वेन शङ्कितानि यद्यन्याक्षरैः सह बिन्दुमात्रादिना संबद्धानि तदा प्रमाणमेव पत्रमिति । संबन्धोऽपि निर्णा । यक इति । एवमन्योन्यसंबन्धो विश्वासहेतुश्च निर्णा यक इति । हेतुभिरिति न पृथक्करणोपादानं, किन्तु युक्त्यादिभिर्हेतुभिरित्यर्थः । एतच्च दिगुपदर्शनम् । स्मृसा. ९६-९७
(६) युक्तिः इदानीं द्रव्यं नास्ति मासान्तरे दातव्यं मयेत्यभिधानान्यथानुपपत्तिः । प्राप्तिः तत्पत्र लिखितर्णवृद्धयादिप्राप्तिः । संबन्धः विवादपदे कुण्डलादौ पूर्व काल उत्तमणीयत्वावधारणम् । आगमो विवादपदस्य तत्पूर्वक्रियादिः । वीमि २।९२
ऋणापाकरणसंबन्धी उपगतादिविधिः
लेख्यस्य पृष्ठेऽभिलिखेद्दत्वा दत्वर्णिको धनम् । धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् + ।। दत्वर्ण पाटयेल्लेख्यं शुद्धयै वाऽन्यत्तु कारयेत् । साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् + ॥ नारदः लेख्यप्रकाराः तलक्षणानि च
"लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥
* 'संदिग्ध ' पदार्थों मितावत् ।
+ अनयोर्व्याख्यासंग्रहः स्थलादिनिर्देशश्च ऋणादाने द्रष्टव्यः । (१) नासं. २1११२ मत्सा (कं सा) ते (ति); नास्मृ. ४।१३५; शुनी. ४।६६७-६६८ पूर्वार्धे ( स्वहस्तलिखितं वा ऽन्यहस्तेनापि विलेखितम् ); अभा. ५९ ते (ति); मिता.
(१) अत्र एकं स्वहस्तकृतं द्वितीयमन्यहस्तलिखि तम् । एवं तावद्विविधमेवोक्तम् । एतयोस्तु यत्स्वहस्तलिखितं तत्साक्षिभिर्विनाऽपि प्रमाणम् । यत्वन्यहस्तलिखितं तत्साक्षिसहितं प्रमाणम् । स्वहस्तलिखितस्यैतन्माहात्म्यं यद्विनाऽपि साक्षिभिस्तत्प्रमाणमेवेति । यथोक्तं - सिद्धिर्देश स्थितिस्तयोः तद्देशाचारमाहात्म्यं दर्शितम् । यस्मिन् देशे या देशस्थितिः आलेख्य सिद्धिरिति । अभा. ५९
(२) देशाचारस्थितिर्यस्मिन्देशे यादृशं लेख्यं तत्र तादृशमेव आदरणीयमित्यर्थः । स्मृसा. ९५
(३) लेख्यं द्विप्रकारं ज्ञेयं स्वहस्तलिखितमधमर्णेन, अन्यकृतमन्येन लिखितं तद्वचनात् । तदप्येकैकं द्विप्रकारमविद्यमानसाक्षिकं पत्रमात्रं ससाक्षिकं च । तयोः सिद्धिः प्रमाणं देशाचारः । यस्मिन्देशे असाक्षिकः पत्रसंव्यवहारः तत्र तथा सिद्धि:, यत्र ससाक्षिकः तत्र ससाक्षिकं प्रमाणम् । नाभा. २।११२
(४) आद्यं तु साक्षिभिर्विना बलात्कारेण छद्मना च कृतं विना प्रमाणमिति विशेषः । परं तु स्वलिखितसंशयसंभावनायां तद्युदासायं साक्षिमत्तदपि कार्यम् । इतरत् साधारणं विशेषणम् । वीमि. २१८४ (५) तयोरर्थिप्रत्यर्थिनोर्लेख्ययोर्वा । व्यउ.४३ रोज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥
X व्यत, सेतु स्मृसावत् । * व्यप्र. वीमिगतम् । २।८४; अप.२।८९ (=) ज्ञेयं (विद्यात्); व्यक. ६१ नासंवत्; स्मृच. ६१ ज्ञेयं (प्रोक्तं); पमा. १३० स्मृचवत् कात्या यनः; स्मृसा. ९५ तु (च) ज्ञेयं (प्रोक्तं) सिद्धिर्देश ( देशाचार) शेषं नासंवत्; व्यचि . ६२ शेयं ( प्रोक्तं ) न्यकृतं ( न्याक्षरं) मत्सा (कंसा); स्मृचि. ४२ मत्सा (कं सा ) ; व्यत . २२० शेयं (प्रोक्तं) मत्सा (कं सा); व्यसौ. ५८ ज्ञेयं (प्रोक्तं ) न्यकृतं ( न्याक्षरं ); व्यप्र. १४२ स्मृचवत्; व्यउ. ४२-४३ मत्सा (कं सा); व्यम. १२ स्मृचवत्; विता. १२४ ज्ञेयं (प्रोक्तं) ते (ति); राकौ . ४०५; सेतु. ११३ व्यतवत्; प्रका. ४० स्मृचवत्; समु.४३ स्मृचवत्.
(१) शुनी. ४।६७०; स्मृच. ६१; स्मृचि.४३ पूर्वार्धे (स्वहस्तचिह्नितं राज्ञः स्वमुद्राचिह्नितं तथा ) कात्यायनः; प्रका. ४०; समु.४३.