________________
साक्षी
२५७
दिति न जातिनियमः । सादृश्यं च तदा नास्तीत्याह । अन्तर्वेश्मनीति विरलजनोपलक्षणार्थम् । तेन शून्यदेवतायतनादीन्यपि विरलजनानि गृह्यन्ते । तथा चारण्यग्रहणमस्यैवार्थस्य प्रदर्शनार्थम् । अन्ये तु शरीरस्यापि चात्यय इत्यन्यथा व्याख्यानयन्ति । कार्यशरीरस्यातिपाते यः कश्चित्साक्षी, यत्कार्य तदानीं अनुष्ठीयमानमतिपतत्युत्तरकालमशक्यानुष्ठानं तत्र साक्षिणां जातिलिङ्गवयः सादृश्यसंबन्धाभावादिनियमो नास्ति । एतदेवोत्तरेण दर्शयति । मेधा.
म श्रमार्तो न कामाता न क्रुद्धो नापि तस्करः ॥ (१) आर्तो बन्धुधनादिनाशेन । मत्तो मद्यमदक्षीवः । अपस्मारगृहीत उन्मत्तः पिशाचकी । क्षुत्तृष्णोपपीडितो बुभुक्षापिपासाभ्यां व्यथितः । श्रमः कायचेष्टाधिक्येन वूराध्वगमनयुद्धादिनोत्पन्नस्तेनार्तः पीडितः । कामः स्त्रीसङ्गाभिलाषस्तेनाऽर्तो विप्रलब्धोऽत्यन्तसंयोगी वा द्वावपि तावैप्रत्ययौ । चित्तोपलवात् तत्साधने च विप्रलम्भाशङ्कया च । क्रुद्धोऽन्यस्मिन्नपि बहुतरक्रोधः । स हि क्रोधेन व्याप्तचित्तत्वान्न यावदनुभवति नाप्यनुभूतं स्मरति । तस्करचौरः । यद्यप्यसौ विकर्मकृत्तथापि भेदोपादानाद् गोबलीवर्दन्यायो द्रष्टव्यः । *मेघा. (२) एते चार्तत्वादयः साक्षिकरणकाले तस्करः साक्ष्यकाले दृष्टपरार्थापहारः । (३) तस्करः सुरुङ्गादेर्निर्माता । (४) आर्ताद्यष्टसु स्मृतिलोपः प्रसिद्धः । Xमच. 'उक्तासाक्षित्वप्रतिप्रसवः । स्त्रीणान्तु सर्वदैवासाक्षित्वम् । दुष्टानां च अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चाऽत्यये ÷ ॥
(२) अनुभावी, येन तत्कार्य प्रसङ्गादप्यनुभूतम् । यः कश्चिदधमोऽपि । अन्तर्वेश्मन्यरण्य इत्यसंभवत्पुरुषान्तरदेशोपलक्षणम् । शरीरस्यात्यये तत्साक्ष्यकरणे तदैव यदि मृत्युस्तदापीत्यर्थः ।
मवि. स्मृच. ७९
(३) अनुभावी कार्याभिज्ञः ।
(४) गृहाभ्यन्तरेऽरण्यादौ वा चौरादिकृतोपद्रवे देहोपघाते वा आतताय्यादिकृते यः कश्चिदुपलभ्यते वादिनोरेव साक्षी भवति, न तु ऋणादानादिवदुक्तलक्षणोपेतः । ममु. नन्द.
(५) अत्यये पीडायाम् । ऐकोऽलुब्धस्तु साक्षी स्याद्बह्वयः शुच्योऽपि न स्त्रियः। स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ।।
( १ ) एकस्य पुनः प्रतिषेधो लोभादिरहितस्य प्रतिप्रसवार्थः । तेन सत्यवादितया निश्चित एकोऽपि साक्षी भवत्येव । स्त्रियस्तु न कथंचित्साक्ष्यमर्हन्ति अल्पा वा बह्वयो वा । शुच्योऽपीति गुणवत्योऽपीत्यर्थः । अत्र हेतुः स्त्रीबुद्धेरस्थिरत्वादिति । प्रकृतिरेषा स्त्रीणां यद् बुद्धेश्वापलम् । गुणास्तु यत्नोपार्जिता अपि प्रमादालस्यादिना
दोषाः । मवि.
सवि. १३९
(१) अन्तर्वेश्मनि यत्कार्यमतर्कितोपनतं वाग्दण्डपारुष्यसंग्रहस्तेयसाहसादिरूपमरण्ये वा तादृशमेव, शरीरे च पीड्यमाने, तत्काले दस्युभिरन्यैर्वा यतः कुतश्चिद् गृहीतं (यो वा धननिमित्तं प्रतिभूत्वेन स्थापितो न च साक्षिणामेव सर्वो, राजपुरुषादिकं न चोपद्रवन्ति १) रहसि चोक्तो वाऽर्थमाददते अप्रकाशं, तादृशे विषये यः कश्चिदनुभावी स साक्षित्वेन ग्रहीतव्यः । तर्हि यावता कालेन यथोक्तलक्षणाः साक्षिणो लभ्यन्ते तावन्तं कालं न प्रतिपालयन्ति । अनुभावी साक्षाद् द्रष्टा । यः कश्चि
गोरा, ममु. मेभागतम् । x शेषं मेधागतम् । ÷ गोरा. अशुद्धिसंदेहान्नोद्धृतम् । ११७ नापि (नाति); बाल. २१८०; प्रका. ५० बृहस्पतिः ; समु. २८.
|
(१) मस्मृ. ८/६९; व्यमा ३२८ चा (वा) उत्त; अप. २।७२ चा (वा); व्यक. ४९; स्मृच ७९; स्मृसा. १०३३ स्मृचि.४७ उत्त; व्यत. २११ तु (च) पू. २१४ पिचात्यये (त्ययेऽपि च) उत्त.; व्यसौ. ४७; व्यम. १२१ अपवत् सेतु. ११५ व्यतवत्, पू. १२१ उत्त.; प्रका. ५०; समु. २९. १ म्भोs. २ गो द्वा. ३ तावत्प्र. ४ वि.
व्य. का. ३३
¡
(१) मस्मृ. ८।७७ मेधातिथिभाष्यावलोकनात् 'एको लुब्धस्त्वसाक्षी स्यात्' इति पाठः प्रतीयते ; व्यमा ३१९ लुब्धस्तु (प्यलुब्धः) श्चान्ये (रन्ये); व्यक. ४९; स्मृच.७९ स्तु (स्त्व) प्रथमपादः पमा. १०० न्येऽपि (न्यैश्च नारदः; व्यचि. ४० व्यमावत्; स्मृचि. ४६ त्वात्तु (त्वाच्च ); व्यत. २१३ व्यमावत् (प्यलुब्धः ) च्योऽपि (द्धाश्च) पू.; व्यप्र.११६ स्मृचिवत्; सेतु. ११८
चन्द्र. १३४ लुब्धस्तु व्यसौ. ४७ नारदः;
लुब्धस्तु (यलुब्धः त्वात्तु (त्वाच्च ); प्रका. ५१ नारदः; समु. ३० नारदः; विव्य.११ त्वात्तु (त्वाच्च) श्वान्ये (रन्ये).
१ सदृशं च. २ (०). ३ श्यकसं.