SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २४६ सत्येन वाति पवनः । सत्येन भूर्धारयति । सत्येनापस्तिष्ठन्ति । सत्येनाग्निस्तिष्ठति । खं च सत्येन । सत्येन देवाः । सत्येन यज्ञाः । व्यवहारकाण्डम् अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । वरं कूपशताद्वापी वरं वापीशतात् ऋतुः ॥ वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् । सत्येन भूर्धारयति सत्येनोदेति भास्करः ॥ सत्येन वायुः पवते सत्येनापः स्रवन्ति च । सत्यमेव परं दानं सत्यमेव परं तपः ।। सत्यमेव परो धर्मो लोकानामिति नः श्रुतम् । नास्ति सत्यात् परो धर्मो नानृतात्पातकं परम् ॥ साक्षिधर्मविशेषेण सत्यमेव वदेत्ततः । सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन सत्यमेष्यसि ॥ जानन्तोऽपि हि ये साक्ष्ये तूष्णीम्भूता उपासते । कूटसाक्षिणां पापैस्तुल्या दण्डेन वाऽप्यथ । एवं हि साक्षिणं पृच्छेद्वर्णानुक्रमतो नृपः ॥ पारयन्तोऽपीत्यपिशब्देन जानन्तोऽपि, यदि सत्यास्वकीयमनर्थप्रवेशमाशङ्कमानास्तूष्णीमासते, तदा न (?) ते दण्डनीया भवन्तीत्युक्तम् । व्यमा. ३३२ साक्ष्युक्तिरेव जयपराजयकारणम् भिधाने यैस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ (१) विस्मृ. ८।३६; व्यमा ३३१; व्यक. ५२ विष्णुनारद स्मृसा. १२१ तु (च) मनुः; व्यचि . ५६ तु (च) व वि (वावि) विष्णुनारदौ; व्यत.२१५ व विशिष्यते ( वातिरिच्यते ) मनुः; सेसु. १२२ तु (च) स्राद्धि (स्राणि) मनु:. ' साक्षिद्वैधे बहुत्वगुणाद्यनुसारेण निर्णयः बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ (१) न च गृहीतानां वचनद्वैधपरमिदं वचनं, साक्षिद्वैध इति निर्देशात् साक्षिणामेव ग्राह्यतया निर्दे। शात्, न तु तत्तद्वचनस्य, न्यायसाम्यांद्वा उभयविषयपरत्वमेव वचनस्य । एवं चैकस्य सति पत्रेऽन्यस्य साक्षिणो न ग्राह्याः । व्यमा. ३०८ पृष्टानां तु वचनद्वैधे कर्तव्यतामाहतुर्मनुविष्णू - बहुत्वमिति । द्वैधमेकस्य अन्वयाभिधायित्वेऽपरस्य च व्यतिरेकाभिधायित्वे भवति । पुनर्न जानामि न स्मरामि इत्यभिधानेऽपि सत्यपि वस्तुनि तत्संभवेऽपि द्वैधापवादकत्वात् । अत एव नारदः - 'साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ विप्रतिपत्तिर्विरुद्धार्थाभिधान एव भवति, (२) व्यमा . ३३१. । (३) विस्मृ. ८।३७; व्यमा ३३२ जानन्तोऽपि हि (पार यन्तोऽपि) क्ष्ये (क्ष्यं) भूता (भूत्वा ) ल्या (ल्यो) वाऽप्यथ ( चैव हि) प्रथमार्थद्वयम् ; अप.२।७७ जानन्तोऽपि हि (पारयन्तो ऽपि) क्ष्ये (क्ष्यं) वाऽप्यथ ( चैव हि ) प्रथमार्धद्वयम् ; व्यक. ५८ अपवत्, प्रथमार्धद्वयम् ; गौमि. १३ । १३ अन्त्यार्धमेव ; दवि. ३४९ अपवत्,प्रथमार्धद्वयम् ; व्यसौ. ५५ अपवत्, प्रथमार्धद्वयम् . (४) विस्मृ. ८1३८; व्यमा ३३२ वः (वं); व्यक. ६० विष्णुयाज्ञवल्क्यौ; व्यचि. ५७. (१) प्रतिपाद्यतया यावत् प्रतिज्ञातं तावजानीम इति यदि साक्षिणो ब्रूयुस्तदा स जयी भवति । न तु भाषाकाले यावत् साध्यं निर्दिष्टं विभावितैकदेशन्याय निर्विषयापत्तेः । अस्य विस्तरेण पूर्व प्रतिपादितत्वात् । यस्य पुनः साक्षिणोऽन्यथा वदन्ति मिथ्येति तन्न भवत्येवायमर्थस्तस्य भङ्ग (?) इति, तदाह व्यासः — 'तीर्णप्रतिज्ञो विजयी मिथ्यावादी विहीयते' । मिथ्यावादत्वावधारणाद् भङ्ग इत्यर्थः । अत एव यत्र न स्मरामः इत्याहुस्तत्र न प्रतिज्ञातस्य सत्यत्वं नापि मिथ्यात्वं इति । न तत्र जयपराजयौ, परीक्षकाणामन्यतरपक्षावधारणे प्रमाणाभावात्, अतः क्रियान्तरेण दिव्यादिना निर्णयः कार्यः । व्यमा. ३३३ (२) अन्यथावादिन इति प्रतिज्ञातार्थस्यासत्यवादिन इत्यर्थः । पूर्वार्धे प्रतिज्ञातार्थसत्यत्वस्यैवोपस्थिततया अन्यथापदेन तदसत्यत्वस्यैवाभिधानात्तथैव व्युत्पत्तेः वादिन इत्यस्य विभागे अर्थपौनरुक्त्यात् अन्यथेतिमात्रस्य साकाङ्क्षतया भवन्तीत्यध्याहारगौरवात् अध्याहारलक्षणवाक्यभेदापत्तेश्चेति । व्यचि . ५७ (१) विस्मृ. ८।३९ परि (प्रति); व्यमा. ३०८, ३२५, च (तु) : ३३५ मनुविष्णू; अप. २ ७७; व्यक. ५९ मनुविष्णू ; सवि. १४१ (साक्षिद्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम्); व्यसौ.५६-५७ त्कृष्टा (त्कर्षा).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy