________________
२०२
तारं परिकल्प स्वहृदये आवेदयति मया अस्य पार्श्वे लभ्यद्रव्यशतद्वयमिति । अथवा, प्रथमं लभ्यद्रव्यं जनं प्रार्थयित्वा द्वितीयवेलायामधिकं प्रार्थयते, अधिकं वा प्रथममुक्त्वा जनं वदति – इमां सर्वथाऽपि अर्थविप्रकृतिं विनाशतां न नयेत् । तथाऽन्यत्पक्षान्तरं गच्छेदिति — प्रथमं स्वकीयसुवर्णस्य विंशतिगद्याणकप्रार्थनां कृत्वा द्वितीयवेलायां वदति, मदीयपुत्रस्यानेन दातव्यमस्ति द्रम्मपञ्चाशदिति । एतदन्यत्पक्षान्तरमुच्यते । तं न गच्छेत् । यतो द्वितीयपक्षान्तरं गच्छन्पूर्वपक्षात् वादी हीयत इति । अभा. १५ (२) विप्रकृतिर्यथा । मदीया महिषी धेनुरनेनापहृतेति अभियुज्य लेखयित्वा पश्चाद्गोधेनुरित्याहुः । मदीयां पत्नीमयमपहृतवानिति अभियुज्य पश्चादाह अवरुद्धवानिति । पक्षान्तरं यथा, निक्षिप्तं मया तस्मिन् सुवर्ण, तद्ददात्विति लेखयित्वा आस्तां तावदिदं मदीयां अवरुद्धकीं कुतोऽपहृतवानिति । यत्र तु पूर्वोक्तमजहदेव प्रतिज्ञान्तरं गच्छेत् यथा मम ऋणं गृहीत्वा न ददाति तावत् तद्याचमानश्चाऽहमनेन मूर्ध्नि पादेन हत इति अधिकदण्डनीयार्थे तत्र न दोषः । ' न तं विप्रकृतिं नयेत्' इति प्रतिज्ञातमर्थं न्यूनमधिकं वा न कुर्यात् न च पूर्व प्रतिज्ञामुक्त्वा प्रतिज्ञान्तरं कुर्यात् ।
व्यमा. २९२
(३) विप्रकृतिं न्यूनतामधिकतां वा, यथा शतं धारयसीति भाषित्वा पश्चात् पञ्चाशतमेव वा सार्धशतं वेति पुनर्भाषणं पक्षान्तरमिति शतं, सुवर्णान् धारयसीत्यादि भाषित्वा विरम्य पश्चात् गांश्च धारयसीति पक्षान्तरमि - त्यर्थः । इदं चोत्तरविरोधात् पूर्वमविरुद्धमेव तदनन्तरं तु विरुद्धम् । 'उत्तरेणावरुद्धस्य निवृत्तं लेखनं भवेत्' इत्यादिवचनात् । व्यचि. १३ ( ४ ) यमर्थ धान्यहिरण्यादिकमुद्दिश्य व्यवहारो लेखितः, तमर्थ क्रियाकालेऽन्यथा न ब्रूयात् । हिरण्यं लेखयित्वा साक्षिप्रश्नकाले धान्यमिति । नान्यत् पक्षान्तरमिति । गच्छेत् साक्षिणमुद्दिश्येत्युक्तम्, नार्थान्तरमुद्दिश्येति । इदमन्यन्मम धारयति तत् तावद् दाप्यतां तिष्ठन्तु साक्षिण इति । स पूर्वोक्तादर्थाद्धीयते । तत्र पराजीयत इत्यर्थः । तच्च न लभते दण्ड्यश्चेति । नाभा. ११४९
व्यवहारकाण्डम्
नै च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमात्रजेत् ॥ (१) न च अर्थसंबन्धं विनैव कामक्रोध लोभान्धतया मिथ्याभियोगः केनाऽपि कार्यः कर्तव्यः कदापि । त मिथ्याऽभियोगदातुर्महान्दोषः । यस्तत्र विनयः प्रोक्तः स मिथ्याऽभियोगदातारमात्रजेत् आगच्छेदित्यर्थः ।
अभा. १५
(२) तत्प्रतिपदोक्तदण्डाभावविषयम् । सामान्यशास्त्रत्वात् । तेन निह्नवेऽसद्वृत्तस्य यो दण्डोऽभिहितो विष्णुना स एव सद्वृत्तस्य मिथ्याभियोगिनो भवतीत्यव: गन्तव्यम् । स्मृच. १२२ (३) अगुरुतल्पगः गुरुतल्पग इत्युक्ते गुरुतल्पगस्य यत्कार्यं तदभियोक्तुः कर्तव्यम् । नाभा. ११५० सोपदेशं हरन्कालमब्रुवंश्चाऽपि संसदि । उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ॥
तत्र अपदेशो व्याजः । सव्याजं कालहरणं कुर्वन् 'तावदपटुरहं, तावदशुचिरहं, नोत्तरं प्रयच्छामि' इति । तथा च, यश्च सभ्यैः पृष्टो न ब्रवीति । यश्च प्रथमं वचनमुत्क्वा पश्चाद् ब्रवीति - न मया तदुक्तमिति । एतैश्चिन्हैस्तस्य हीयमानस्य लक्षणं ज्ञेयमिति । पैलायते य आहूतः प्राप्तश्च विवदेन्न यः । विनेयः स भवेद्राज्ञा हीन एव स वादतः ॥
अभा. १५-१६
यश्च राज्ञा चाहूतः सन् पलायते, तथा पलाय.. मानोऽपि पुरुषैर्यत्नादानीतः, तत्र प्राप्तः प्रचोद्यमानोऽपि किंञ्चिन्न वदेत् स विनेयो राज्ञा भवति, यतो हीन एव स तस्माद्वादत इति । सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति । अपदिश्य च यो देश्यं पुनस्तमनुधावति ॥
अभा. १६
(१) नासं. ११५०; नास्मृ. ११५७; अभा. १५० व्यक. १२८; स्मृच. १२२; प्रका. ७७; समु. ६७. (२) नासं. १५१; नास्मृ. ११५८ उक्त्वा वचो (उक्ता वाचो); अभा. १५; व्यक. ३४ सा (सो) हरन् (हरेत् ); व्यनि. हरन् (हरेत्) ब्रुवं (भ्रमं); व्यसौ. ३३ सापदेशं (अदेशं यो).'
(३) नासं. ११५२ विनेयः स ( स दण्ड्यश्च); नास्मृ. ११५९१ अभा. १६ विवदेन्न य: ( न वदेत्तु यः); व्यक. ३४ पला .... त: (आहृतो यः पलायत) सवा (विवा); व्यसौ. ३३ व्यकक्त्.
(४) नास्मृ. १।६० सन्ना (सन्नोs); अभा. १६ चा (वार्त) सन्ना (सन्नोs); अप. २।१६ चा (यो) च यो दे (मुद्दे).