________________
५४
व्यवहारकाण्डम्
विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥ अज्ञानक्रोधवशादन्यथा वादिनस्तु विशेषोक्त्यभावात् सामान्येन सभ्यसंबन्धितया बृहस्पत्युक्तं तत्र व्यवतिष्ठते अन्यायेति । उत्कोचजीविन इत्येतत्सभ्येतरविषयम् । 'कूटसाक्षिणां सर्वस्वापहार उत्कोचजीविनां सभ्यानां च' इति विष्णुना सभ्यविषये सर्वस्वापहारस्योक्तस्वात् । यत्तु कैश्चिदन्यथावादे 'मोहात् सहस्रं दण्डयास्तु ' इत्यादि मनुवचनोक्तद्विशतादिदण्डवैचित्र्यमुक्तं तद्याज्ञवल्क्यवचनतो ' रागादावेव द्विगुणो दम' इति नियमादज्ञानादौ दण्डान्तरं मृग्यमित्येवंपरं न पुनर्मनुवचनबलेन द्विशतादिदण्डप्रतिपादनार्थम् ।
'एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीत्रिणः' । इति उपसंहारतो मनुवचनस्य साक्ष्यपराधविषयत्वात् । तस्मादज्ञानादौ बार्हस्पत्यवचनविहितो दमः सभ्यविषयोऽनुसंधेयः । स्मृच. २२-२३ व्यवहारनिर्णयेऽनधिकारिण: देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः । उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥ कुलश्रेणिगणादीनां साहसभिन्नपदेषु निर्णयाधिकारः राज्ञो ये विदिताः सम्यक् कुलश्रेणिगणादयः । साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम्।।
अरण्यचरसैनिकवणिजां न्यायस्थानम्
ये त्वरण्यचरास्तेषां अरण्ये करणं भवेत् । सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ॥ करणं सभा ।
व्यक. १२
(१) अप. २।२; व्यक. १२; स्मृच. १५, रार . २४ क्रुद्धलुब्धा (लुब्धक्रुद्धा); पमा. २७ क्रुद्धलुब्धार्ता (लुब्धक्रुद्धाश्च ) ; व्यनि. (उन्मत्ताः क्रुद्धभावाश्च न नियोज्या विनिर्णये) व्यासः ; नृप्र.४ पमावत्; व्यसौ . ९; विता. ९; प्रका. ७; समु. ६.
(२) शुनी. ४।५३० ज्ञो (ज्ञा) न्याय ( स्तेय); व्यक. १२ शो (शा); स्मृच.२ ० व्यकवत् ; पमा ३२ व्यकवत् ; दीक्र. ३४१ दवि.१५ व्यकवत्; नृप्र.५ विदि (विहि); सवि. ६८ज्ञो (ज्ञा) विदि ( ऽभिहि); व्यसौ. ९; व्यप्र. ३०३ व्यउ १९; विता. १६; प्रका. ११; समु.८.
(३) व्यमा. २८१ ण्ये (ण्य) षु (तु); व्यक. १२; व्यचि.४ तु (च); दवि. १५; व्यसौ.९; व्यम. ३ त्वर (चार); विता. १७ व्यमवत्; प्रका. ९ व्यमावत् ; समु. ६ व्यमावत्.
कु.लश्रेणिगणनियुक्ताध्यक्षराज्ञामुत्तरोत्तरं प्रामाण्ये बलवत्वम् कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारिणः । येषाम निश्चितस्य प्रतिष्ठा तूत्तरोत्तरा ॥ विचार्य श्रेणिभिः कार्य कुलैर्यन्न विचारितम् । गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ॥ कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षोऽधिकः
कृतः । सर्वेषामधिको राजा धार्यं यत्नेन निश्चितम् ॥ उत्तमाधममध्यानां विवादानां विचारणात् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ (१) कुलं वादिनोवैश्याः । आदिपदात् श्रेणिः गणश्च । तत्र श्रेणिः वणिगादिसमूहः । गणो विप्रसमूहः । सभ्यः नियुक्तः साधुः । अध्यक्षः प्राड्विवाकः । एतेषां राजान्तानां निर्णयकरणे उत्तरोत्तरस्य बलवत्त्वं ज्ञानो- ' |त्कर्षादित्यर्थः । व्यचि.४ (२) कुलादिपदार्था व्याख्याताः । गणशब्दः पूगपर्याय: । आदिपदेन सभ्यादिग्रहणम् । नियुक्तकाः सभ्याः । साहसाख्यं व्यवहारपदम् । युक्तिश्वात्रेयम्कुलादीनां ज्ञात्यादिरूपाणां दाक्षिण्यादिना अन्यथा दर्शनमपि संभाव्यते इति कुदृष्टत्वोद्भावकवचनेन राजादीनामसंभवः । श्रेणीनांमुदासीनतया ततो बलवत्ता । पूगानां त्वेकस्थानवासमात्रसम्बन्धेऽपि भिन्नजातितया भिन्नवृत्ति - तया च ततोऽपि मिथोऽनपेक्षत्वादौदास्याद्बलवत्त्वम् | नृपाधिकृतानां तु ततोऽपि नि:संबन्धतया राज्ञा परीक्ष्या
(१) व्यक. १२ श्रेणि (श्रेणी) रिण: (रकाः ) येषा (एषा); दवि. १५ श्रेणि (श्रेणी) पू.; व्यप्र. ३०; व्यउ. १९; विता. १६.
(२) शुनी. ४।५३१; व्यक. १२ चारित (निश्चित); दवि.१५ चार्य (चार्य); व्यसौ. १९ गणाज्ञातं (गणाज्ञानं ) उत्त. ; व्यप्र. ३० विज्ञातं (विख्यातं ) ; व्यउ. १९.
शुनी. ४।५३२ धार्य... तम् (धर्माधर्मनियोजकः); व्यक. १३ऽधिकः कृतः (स्मृतोऽधिकः) धार्यं (धर्म्यं); व्यचि . ४ व्यकवत् ; दवि. १६ व्यकवत्, पू.; व्यसौ. ९व्यकवत् ; वीमि. २०३०ऽधिकः कृतः स्मृतोऽधिकः ) धार्यं यत्नेन ( धमों यत्तेन) कात्यायनः; व्यप्र. ३० धार्यं (धर्म); व्यउ. १९ कृतः (स्मृतः) धार्यं (धर्मं) तम् (तः).
(४) शुनी. ४।५३३; व्यक. १३ बुद्धी (रङ्गा); व्यचि.४१ व्यसौ. ९पू.; वीमि . २ । ३० कात्यायनः ; व्यप्र. ३०; ब्य. २०