________________
प्रास्ताविकम्
सर्वो हि धर्मः श्रुतिस्मृतिपुराणेतिहासप्रसिद्धः टीकासु निबन्धेषु च विद्वद्भिर्विवृतस्तालर्यशो वर्णितश्च । सर्वो धर्मः यथावत् प्रमाणानुपूर्वी मूलफलभावं पारंपर्यं चावधार्य प्रतिपादनीय इत्यभिसंधाय धर्मकोशकाराः संप्रत्युपलभ्यमानश्रुतिस्मृतिपुराणेतिहासव्याख्यान निबन्धान् मुद्रितानमुद्रितश्च संगृह्यं धर्मकोशरचनायां प्रवृत्ताः । स्वकल्पितार्थनिवेशनं च नात्राभिप्रेतं किंतु यत्किंच धर्ममूलेषु तद्वयाख्यानग्रन्थेषु च प्रतिपाद्यते धर्मस्वरूपं तत्सव तथा स्थितमेव संग्रहणीयमिति धर्मकोशप्रयत्नः । दण्डनीतिव्यवहारवर्णाश्रमाचार संस्कारप्रायश्चित्तशान्तित्रतयज्ञपूजायात्राप्रतिष्ठामोक्षधर्मादिभेदभिन्नः संक्षेपत आचारव्यवहारप्रायश्चित्तात्मको बहुशाखो धर्मः सविस्तरमभिहितः प्राचीनाचार्यैः । स एष सामान्यविशेषविषयप्र विभागमवधार्य प्रमाणानुपूर्व्या निरूपणीय इति धर्मकोशरचनायाः समादरः ।
प्रथमं प्रमाणमूर्धन्याः श्रुतयो मन्त्रब्राह्मणारण्यकोपनिषद्रूपाः प्रसिद्धानुक्रममनुसंधाय निरदेशिषत । श्रुतयः खलु स्मार्त धर्म न सर्वत्र साक्षात् बोधयन्ति । प्रत्युत विध्यर्थवादमन्त्रवर्णलिङ्गादिप्रकारैर्यथाकथंचित् ज्ञापयन्ति › यावन्तो वेदग्रन्थाः क्षितितले विदुषां गोचराः, तान्समाहृत्य तत्तत्प्रकृतार्थोपयोगीनि वचनजातानि समाकृष्य, उद्देश - क्रमेण प्रावेशिषत । यानि श्रुतिवचनानि उपलभ्यमानशाखास्वश्रुतानि कल्पसूत्रेषु श्रौतगृह्यात्मकेषु धर्मसूत्रेषु च पठ्यमानानि दृष्टानि तान्यपि संकलय्य यथास्थानं प्रापिषत ।
श्रुतिसमुद्धारसमनन्तरं निरुक्तं, कल्पसूत्राणि, स्मृतयः, महाभारतं, कौटिलीयमर्थशास्त्रं रामायणं, शुक्रनीतिः अग्निपुराणं, मानसोल्लासश्च यथाक्रममुद्धृतः ।
प्रकाशः मिताक्षरावत्) 'अप मितागतम् ' ( अपरार्कव्याख्यानं मिताक्षरायां गतार्थम् ) इत्यादिरूपा टिप्पणी तत्तद्वयाख्यानमनुरुध्य निबद्धा । तथा च असहाय विश्वरूपमेधातिथिमिताक्षरादयः समग्रा एवोद्धृताः पूर्वतननिबन्धत्वात् । उत्तरनिबन्धाश्चांशतः स्थलविशेषव्युत्पादनविशेषानुसारेणावतारिताः ।
मुद्रितमेधातिथिभाष्यस्थमष्टमनवमाध्यायव्याख्यानं यथामति शुद्धपाठकल्पनया परिशोधितम् । मूलाशुद्धपाठः बहुषु स्थलेष्वशुद्धपाठग्रस्तं नार्थावबोधायालं इति पादटिप्पण्यां दत्तः । जीमूतवा नकृता व्यवहारमातृकापि कथंचिदल्पस्थलेषु परिशोधिता । अशुद्धिजटिलश्च भागः परित्यक्तो नोद्धृतः शुद्धपाठकल्पनाकालालाभात् । असहायकृतं नारदस्मृतिव्याख्यानं डॉ. जालिमहोदयेन संशोध्य प्रकाशितं, तत्र बहवोऽशाः डॉ. जॉलिमहोदयेन न संगृहीताः दोषाशङ्कया, अस्माभिश्च ते त्यक्तांशाः शुद्धपाठं निर्णीय पुनरत्र धर्मकोशे आदृताः । व्यवहारकल्पतरुः लक्ष्मीधर प्रणीतः संपूर्णाक्षरः समग्रः नास्माभिरपि लब्धः । परंतु अन्तिमे दण्डविधिप्रकरणे किंचित् त्रुटितः, प्रथमप्रकरणतो दण्डविधिपर्यन्तमखण्डः प्राप्तः बिकानेरमहाराजपुस्तकालयतः। तदपि पुस्तकं समग्रव्याख्यानयुक्तं नास्ति इति निबन्धान्तरेषु ये कल्पतरु मतोद्धारा दृश्यन्ते ततोऽवगम्यते । मदनरत्नस्य व्यवहारोद्योतः द्यूतसमाह्वयपर्यन्तोऽखण्डः बिकानेरमहाराजपुस्तकालयतः प्रातः तत्रापि द्यूतसमाह्वयस्य कश्चिदंशः पतितः, कानिचित् पत्राणि न लभ्यन्ते । व्यवहारचिन्तामणिः वंगलिप्यां लिखितः बडोदेराज्य पुस्तकालयतः आनाय्य देवनागरीलिप्यां विलिख्य प्रकृतकार्योपकाराय उपयोजितः । शरभोजीमहाराजकृतौ व्यवहारप्रकाशव्यवहारार्थसमुच्चयौ केवलस्मृतिसमुच्चयरूपौ व्याख्यानरहितौ तंजावरसरस्वतीमहालपुस्तकालयात् देवनागरीलिप्यां विलिख्य संगृहीतौ । वरदराजीयो व्यवहारनिर्णयः ग्रंथलिप्यां लिखितो देवनागरीलिप्यामनूदितोऽत्र संव्यवहृतः परं मातृका, दायभागश्चेति प्रकरणद्वयमात्रं लिप्यन्तरकारेणानूदितमिति तावदेवात्रा
टीका निबन्धाः व्याख्यानग्रन्थाश्च कालक्रमेण निविष्टाः । अत्र एतावान् विशेषोऽवधार्यः यत् व्याख्यानग्रन्था न सामग्येणोद्धृताः, किंतु पूर्वतरकालीननिबन्धं टीकां वोदाहार्य यावानंशः समधिक उत्तरकालीनग्रन्थेष्ववशिष्यते तावानेव धर्मकोशे संगृहीतः । पूर्वतरग्रन्थसमानोत्तरग्रन्थांशमसंगृह्य ' पूर्वेण समानो अमुकोऽशः 'इति ज्ञापनार्थे 'व्यप्र. मितावत्' ( व्यवहार | लोचितमवसरे ।