SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ वर्ग: २ ] व्याख्यासुधाख्यव्याख्यासमेतः । विपणिः पण्यवीथिका ॥ २ ॥ ( विपणिरिति ॥ विपणन्तेऽत्र 'पण व्यवहारे' ( भ्वा० आ० से०)। ‘इक् कृष्यादिभ्यः’ (वा० ३।३।१०८) 'कृदिका - रात्–' (ग० ४।१।४५) इति ङीष् ॥ (१) ॥ ॥ पण्यानां वीथी स्वार्थे कन् (५।३।७५) ॥ (२) ॥*॥ द्वे शून्यविक्रयस्थानस्य । हट्टमार्गस्य — इति स्वामी । ' आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्' इति शाश्वतः । ' आपणः पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रभसः ॥ 'द्वयं क्रय्यवस्तुशालापङ्क्तेः' ॥ रथ्या प्रतोली विशिखा । रथ्येति ॥ रथं वहति । 'तद्वहति रथयुग - ' ( ४/४/७६ ) इति यत् । 'रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे' इति हैमः ॥ (१) ॥ ॥ प्रतोलयति 'तुल उन्माने' चुरादिः पचाद्यच् ( ३।१।१३४) । गौरादिङीष् (४|१|४१ ) यत्तु—‘एरच्’ ( ३।३।५६ ) इति मुकुटेनोक्तम् । तन्न । 'प्रतोलयति' इति विग्रहप्रदर्शनात् । अकर्तरि कार के भावे च एरचो विधानात् ॥ (२) ॥*॥ विशेते 'शीङः किखश्च' (उ० ५।२४) इति खः । 'विशिखाः खनित्रिकायां रथ्यायां बिशिखः शरे' इति हैमः ॥ (३) ॥*॥ त्रीणि 'ग्रोममध्यमार्गस्य ॥ ११७ इति दीर्घः - इति स्वामि- मुकुटौ । तन्न । अस्यादर्शनात् ॥ (१) ॥*॥ वृणोति । 'वृञ् वरणे' ( वा० उ० से० ) कर्तरि ल्युट् ३।३।११३) । करणे (३।३।११७) वा । 'वरणो वरणद्रुमे । प्राकारे, वरणं वृत्याम्' इति हैमः ॥ ( २ ) ॥ ॥ सत्यते । 'पल गतौ' ( वा० प० से० ) । कर्मणि घञ् ( ३।३।१९ ) । 'सालो वरणसर्जयोः' इति रभसः ॥ ॥ ' तालव्यो नृपझषयोः शालो, वृक्षे वृतौ द्रुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम्' इत्यूष्मविवेकः । तत्र 'शल गतौ' (भ्वा० प० से० ) धातुर्बोध्यः ॥ (३) ॥ * ॥ त्रीणि 'यष्टिकाकण्ट कादिरचितवेष्टनस्य' ॥ स्याच्चयो वप्रमस्त्रियाम् । स्यादिति ॥ चीयते । 'चिन् चयने' ( खा० उ० अ० ) । कर्मणि ‘एरच्’ ( ३।३।५६ ) ॥ (१) ॥*॥ उप्यतेऽत्र । 'डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ० ) । 'वपिवृधिभ्यां रन्' (उ० २।२७) । 'वैप्रश्चावरणे वृन्दे प्राकारे मूलबन्धने' इति धरणिः । ‘वप्रस्ताते पुमान्, अस्त्री रेणौ क्षेत्रे चये तटे' इति मेदिनी ॥ (२) ॥*॥ द्वे ‘प्राकाराधारस्य', 'परिखोद्धृतमृत्तिका | कूटस्य' ॥ प्राकारो वरणः सालः प्राकार इति ॥ प्र क्रियते । 'डुकृञ् करणे' (त० उ० अ० ) । कर्मणि घञ् ( ३।३।१९ ) । ' उपसर्गस्य घञि' ( ६।३।१२३ ) इति दीर्घः । आङ् वा - 'सादकारयोः कृत्रिमे ' १–मुकुटस्तु–‘चत्वार्येव हट्टस्य' इत्यन्ये । 'पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णापणं विपणिनो विपणिं विभेजुः' इति माघे । 'विपणिट्ट:' इति वलभेन व्याख्यातम् । अत एव प्रयोगादविपणेः पुंस्त्वमपि - इति सर्वधरः - इत्यप्याह ॥ अत एव हैम-मेदिन्योः 'विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः' इत्युपलभ्यते ॥ २–केचित्तु विपण्यादीन्पश्चैकार्थानाहुः । तथा च कौटिल्यः -- 'विशिखायां सौवर्णिप्रचारः' इति तु भट्टक्षीरस्वामी - इति मुकुटः ॥ ३ - मुकुट पुस्तकयोस्तु 'चयः' इत्युपलभ्यते ॥ ( प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥ प्राचीनमिति ॥ प्रागेव । ' विभाषाञ्चरदिक् स्त्रियाम्' ५/४१८ ) इति खः ॥*॥ 'प्राचीरम्' इति पाठे तु प्राचीयते । प्राङ्पूर्वः । 'चिञ् चयने' ( खा० उ० अ० ) । ' शुसिचिमीनां दीर्घश्च' ( उ० २।२५ ) इति कन्दीर्घौ ॥ (१) ॥ ॥ प्रान्ततः, सप्तम्यास्तसिः ( ) । वरणं वृतिः । 'वृञ् वरणे' ( वा० उ० अ० ) । क्तिन् ( ३।३१९४ ) । – त्रियतेऽनया, इति 'श्रुतिः' इत्यपि नाम, इति स्वामी - इति मुकुटः । तन्न । करणे ल्युट्प्रसङ्गात् ॥*॥ एक 'ग्रामादेरन्ते कण्टकादिवेष्टनस्य' ॥ भित्तिः स्त्री कुंड्यम् भित्तिरिति ॥ भिद्यते । 'भिदिर् विदारणे' (रु० उ० अ० ) । क्तिन् ( ३।३।९४ ) । 'भित्तिः कुष्ये प्रभेदे च ' इति हैमः ॥ (१) ॥ ॥ कुट्यां साधु । ‘तत्र साधुः’ (४|४|१८ ) इति यत् । पृषोदरादिः ( ६।३।१०९) । कुड्यते वा । 'कुडि कार्कश्ये' ( ) । ण्यत् ( ३।१११२४) । ( 'कुड्यं भित्तौ विलेपने' इति मेदिनी ) ॥ (२) ॥*॥ द्वे 'भित्तेः ॥ एडूकं यदन्तर्न्यस्तकीकसम् । एडूकमिति ॥ यत् कुड्यं मध्यन्यस्तास्थि तत् ईष्यते । 'ईड स्तुतौ' (अ० आ० से० ) 'उलूकादयश्व' ( उ० ४।४१ ) इति साधु । 'भवेदेडोक मेडूकमेडुकं च' इति द्विरूपकोशः ॥ (१) ॥*॥ एकम् 'अस्थ्यादिमयकुड्यस्य' ॥ गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४॥ निशान्तवस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भून्येव निकाय्यनिलयालयाः ॥ ५ ॥ गृहमिति ॥ गृह्णाति । 'ग्रह उपादाने' (क्या० उ० से० ) १ – अस्य वार्तिकस्य, उदाहरणप्रत्युदाहरणयोश्च ( ६ । ३ । १२२) सूत्रे भाष्ये उपलब्धेरकिंचित्करमेतत् ॥ २ – कौ द्योतते इति प्रकरणे 'अन्यत्रापि' इति डः इति सोमनन्दी । एतेन दकारोऽत्र, न डकारः इति स्वामी - इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy