SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणीभ्रेषो भ्रंशो यथोचितात् । यथोचिताद् रूपाद् भ्रंशोऽधःपातः, भ्रषणं भ्रषः ॥ १॥ अभावो नाशे न भावः सत्ता अभावः ॥ १ ॥ नशनं नाशस्तत्र ॥ २ ॥ संक्रामसंक्रमौ दुर्गसंचरे ॥ १५३ ॥ संक्रामन्त्यनेन संक्रामः, घमि बाहुलकाद् वृद्धिः ॥ १॥ "मोऽकमि" ॥ ४ ॥ ३ । ५५ ॥ इति वृद्धिनिषेधे संक्रमः, पुंक्लीबलिङ्गावेतौ ॥२॥ दुर्गे संचरतेऽनेन दुर्ग-. संचरस्तत्र “गोचरसंचर-"॥ ५।३।१३१ ॥ इति साधुः ॥ ३ ॥ १५३ ॥ नीवाकस्तु प्रयामः स्यात् नियतं वचनं नीवाकः तुलाधृताऽनाधिक्यम्, क्रियादरो वा ॥१॥ प्रयमनं प्रयामः ॥ २ ॥ . अवेक्षा प्रतिजागरः। अवेक्षणमवेक्षा अवधानमित्यर्थः ॥ १ ॥ प्रतिजागरणं प्रतिजागरः ॥ २ ॥ . समौ विश्रम्भविश्वासौ विश्रम्भणं विश्रम्भः ॥ १ ॥ विश्वसनं विश्वासः ॥ २ ॥ परिणामस्तु विक्रिया ॥ १५४ ॥ परिणमनं परिणामः ॥३॥ विक्रियते विक्रिया, विकार-विकृती अपि ॥२॥१५४॥ ___ चक्रावतॊ भ्रमो भ्रान्तिभ्रमिषूर्णिश्च घूर्णने । चक्रेण आवर्तनं चक्रावर्तः ॥ १॥ भ्रमणं भ्रमः ॥ २ ॥ क्तौ भ्रान्तिः ॥ ॥३॥ "तृभ्रमि." | ( उणा-६११ ) ॥ इतीप्रत्यये भ्रमिः ॥ ४ ॥ घरणम्, घूर्णनं वा घूर्णिः, त्रयोऽपि स्त्रीलिङ्गाः "हर्णिधूर्णि-" ॥ ( उणा-६३७ ) ॥ इति णौ निपात्यते ॥ ५ ॥ घूर्ण्यते घूर्णनम्, तत्र ॥ ६ ॥ विप्रलम्भो विसंव दः विप्रलम्भन विप्रलम्भः "उपसीत् खलघञाश्च" ॥ ४ । ४ । १०७ ॥ इति घाज नान्तः ॥ १ ॥ विसंवदनं विसंवादः ॥ २ ॥ विलम्भस्त्वतिसर्जनम् ॥ १५५ ॥ विलम्भनं विलम्भः ॥ १ ॥ अतिसृज्यतेऽतिसर्जनं समर्पणमित्यर्थः ॥२॥१५५॥ उपलम्भस्त्वनुभवः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy