________________
अभिधानचिन्तामणौ--
मौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवत् चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखरः, शूलिवत् शूलवान् , पिनाकमालिवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधरः, इति ॥ भोज्यभोजकभावसंबन्धे यथा
भोज्याद् भुग-न्धो-व्रत-लिट्-पायि-पा-शा-शनादयः ॥७॥ भोज्यं भक्ष्यं तद्वाचिनः शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तृणां नाम आहुः ॥ यथा-अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः, देवाः । 'तेषां ह्यमृतं भोज्यम्' । इति रूढिः ॥ आदिशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय ॥ 'कविरूड्या' इत्येव । नहि यथा अमृतभुजः, तथा अमृतवल्भा इति भवति ॥ ७॥ पतिकलत्रभावसंबन्धे यथा
पत्युः कान्ता-प्रियतमा-वधू-प्रणयिनी-निभाः ।
कलत्राद् वर-रमण-प्रणयी-श-प्रियादयः ॥ ८ ॥ पतिर्वरयिता तद्वाचकात् शब्दात् कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम आहुः ॥ यथा-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, गौरी ॥ तस्या हि शिवः पतिः इति रूढिः ॥ निभग्रहणाद्रमणी-वल्लभा-प्रिया-प्रभृतयो गृह्यन्ते ॥ 'कविरूद्ध्या' इत्येव । नहि भवति यथा शिवकान्ता तथा शिवपरिग्रहः इति ॥ तथा-कलत्रवाचिनः शब्दात्परे वरादयः शब्दास्तद्वतां कलत्रवतां वरयितृणां नाम आहुः ॥ यथा-गौरीवरः, गौरीरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः, शिवः ॥ 'तस्य हि गौरी कलत्रम्' इति रूढिः॥आदिशब्दात् तत्समानार्थाः पत्यादयो गृह्यन्ते॥ 'कविरून्या' इत्येव ॥ नहि भवति यथा गौरीवरः शिवः, तथा गङ्गावर इति ॥८॥
सख्युः सम्बन्धे यथा_____ सख्युः सखिसमाः
सखिवाचकात् शब्दात् परे सखिसमानार्थाः तद्वतां सख्यवतां नाम आहुः ॥ यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः । मधुसखः कामः । समग्रहणात् सुहृदादयो गृह्यन्ते ॥ 'कविरून्या' इत्येव । नहि भवति यथा-श्रीकण्ठसखो धनदः, तथाधनदसखः श्रीकण्ठ इति ॥ वाह्यवाहकभावसम्बन्धे स्था
वाह्याद् मामि-याना-सनादयः ।