________________
भूमांश्चेति
१ देवाधिदेवकाण्ड: ।
. इतिशब्दः प्रकारार्थः । तेन भूपादयोऽपि ॥
कविरूढ्या ज्ञेयोदाहरणावली ।
कवीनां रूढिः परम्परायाता प्रसिद्धिस्तया न तु कविरूढ्यऽतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसंबन्धे 'कपाली' इति मत्वर्थीयान्त एव भवति, न तु 'कपालपालः, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि । जन्यजनकभावसंबन्धे यथा
जन्यात् कृत्-कर्तृ-सृट्-स्रष्टृ-विधातृ-कर-सू-समाः ॥५॥ जनकाद् योनि-ज-रुंह-जन्म-भू-सूत्यणादयः ।
M
जन्यात्कार्यात्परे कृदादयस्तद्वतां जनकानां कारणानां नाम आहुः ॥ यथाविश्वकृत्, विश्वकर्ता, विश्वसृट्, विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ब्रह्मा । तस्य हि विश्वं जन्यामति रूढिः ॥ समशब्द आद्यर्थः । तेन - 'विश्वकारकः, विश्वजनक : ' इत्याद्यपि ॥ कविरूढ्येत्येव । नहि यथा चित्रकृदुच्यते तथा चित्रसूः इति ॥५॥ तथा जनकात् परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहुः ॥ यथा- आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः आत्मसूतिः, ब्रह्मा ॥ तस्य यात्मा कारणमिति रूढिः ॥ वक्ष्यमाणस्यादिशब्दस्याभिसंबन्धात् संभवादयोऽपि गृह्यन्ते ॥ अणादयस्तु भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः । वात्स्यस्यापत्यं वात्स्यायन इत्यादि ॥ अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः ॥ रूढ्या' इत्येव । नहि - आत्मयोनिवत् 'आत्मजनकः, आत्मकारकः' इति भवति ॥
'कवि
धार्यधारकभावसम्बन्धे यथा
धार्याद् ध्वजा-ऽस्त्र-पाण्य-ऽङ्क-मौलि-भूषण-भृन्निभाः ॥ ६ ॥ शालि-शेखर-मत्वर्थ-मालि - भर्तृ-धरा अपि ॥
धार्यवाचकात्परे ध्वजादयो धरान्ता धारकस्य नाम आहुः ॥ यथा - वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् । निभग्रहणात्तत्स"दृशा वृषकेतन - शूलायुध - वृषलक्ष्म- चन्द्रशिरस् - चन्द्राभरणादयो गृह्यन्ते ॥ ६॥ तथापिनाकशाली, शशिशेखरः, शूली, पिनाकमाली । पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः ॥ 'कविरूढ्या' इत्येव । तेन सत्यपि धार्यधारकसंबन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । नहि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् अहिपाणिः, वृषाङ्कवत् चन्द्राङ्कः, चन्द्रमौलिवत् गङ्गा