SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ ९४० न्यायकोशः। संस्कारशेष:-सर्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य जात्यादिबीजानां क्लेशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेश्यश्चित्तस्यावस्थाविशेषः। तदुक्तम् विरामप्रत्ययाभ्यासपूर्वः संस्कार शेषोन्यः (पात० सू० १११८) (सर्व० सं० पृ० ३८६ पात० ) इति । संस्कारस्कन्धः-वेदनास्कन्धनिबन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः (सर्व० सं० पृ० ४० बी०)। संस्त्यायः-निवासः ( कैय० ७।३।१४)। .. संस्थानम्-१ [क] अवयवसमुच्चयः । यथा सहजसंस्थानशून्यचरणवान् खञ्जः इत्यादौ संस्थानशब्दस्यार्थः ( श० प्र० श्लो० ९४ टी० पृ० ११८)। [ख] केचित्तु अवयवारम्भकसंयोगविशेष इत्याहुः । [ग] अवयवरचनाविशेषः । [घ] प्रचयाख्यः संयोगः (न्या०. वा० १११४ पृ० ८१ ) । २ सम्यक् स्थितिः। ३ आकारः । ४ चिह्नम् इत्यजय आह । ५ मृत्युः । ६ चतुष्पथश्च इति काव्यज्ञा आहुः । संहतम्-१ मिलितम् । सांख्यास्तु आरम्भकसंयोगयुक्तम् इत्याहुः ( सांख्यभा० ११६६ )। २ संघातः। संहारः-१ [क] प्रलयः ( हेमच० )। यथा चतुर्णां महाभूतानां सृष्टिसंहारविधिरुच्यते ( प्रशस्त० ) इत्यादौ संहारशब्दस्यार्थः । [ख] ध्वंसशब्दवदस्यार्थीनुसंधेयः। २ संक्षेपः। ३ नरकविशेषः। ४ विसर्जनम्। ५ कालिकाभैरवविशेषः इति तात्रिका आहुः । ते चाष्टौ असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च । कपाली भीषणश्चैव संहारश्चाष्टभैरवाः॥ ( तबसा० ) ( वाच० ) इति । . संहिता-१ मन्वादिप्रणीतं धर्मशास्त्रम् पुराणम् इतिहासादि च । २ वेद भागः । यथा ऋक्संहिता यजुःसंहिता सामसंहिता चेति । स च कचिन्मत्ररूपः कचिच्च कर्मप्रतिपादकः कचित्तु गानरूपः इति विज्ञेयम् । ३ शाब्दिकास्तु स्वारसिकाधमात्राकालव्यवायेनैवोच्चारणम् । यथा सुद्धयुपास्यः दध्यत्र इति संहिता इत्याहुः । तथा च सूत्रम् परः संनिकर्षः संहिता (पाणि० १।४।१०९) इति । अत्र व्याकरणनियमः संहितैक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy