________________
न्यायकोशः।
९३३ स्वनिष्ठत्वनिवेशनेन अवच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकसामानाधिकरण्यमात्रेण कोटिद्वयावगाहिनिश्चयस्य अवच्छेदकावच्छेदेन साध्यादिमत्तानिश्चयप्रतिबध्यत्वेपि पक्षतात्ववारणम् इति । शुद्धवह्नित्वावच्छिन्नसाध्यकस्थले पर्वतो वह्निमान् इत्यादौ वह्नयभाववान् पर्वतः इत्येतादृशबाधप्रतिबध्यस्य महानसीयवह्निमान्न वा पक्षः इत्येताहशस्य संशयस्य पक्षतात्ववारणाय साध्यवत्तानिश्चयप्रतिबध्यतावच्छेदकावच्छिन्नत्वं प्रतिबध्यतायां निवेशनीयम् (ग० पक्ष० पृ० ४ ) । पक्षता चेयं पूर्वपक्षीया आचार्यमतसिद्धा च इति बोध्यम् (वाच०)। [ख] अथ वा स्वघटितधर्मावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकीभूता या स्वनिरूपकतावच्छेदकधर्मावच्छिन्ननिरूपितविरोधविषयतानिरूपितविषयतानिरूपिता प्रकारिता सामानाधिकरण्यसंबन्धेन तद्विशिष्टप्रकारितावज्ञानम् । एतल्लक्षणस्यावतरणिका चेत्थमुक्ता। व्याप्यवृत्तित्वविशिष्टकोटिद्वयावगाहिज्ञानं संशयः इति मते संशये समुच्चयव्यावृत्तविषयितां प्रदर्य एकधर्मिकनानाविरुद्धकोट्यवगाहिज्ञानं संशयः इति मते संशयत्वं निर्वक्ति अथ वा इत्यादिना ग्रन्थेन इति । अत्र स्वपदेन संशयविषयैककोटिनिरूपिता प्रकारिता ग्राह्या । [ग] केचित्तु साध्यनिश्चयसाध्याभावनिश्चयप्रतिबध्यतावच्छेदकविशेष्यताशालिज्ञानं संशयः इत्याहुः । अयं भावः । संशये च धर्मिणि उभयप्रकारतानिरूपिकविलक्षणविषयंता समुच्चयवैलक्षण्यायोपगम्यते इति तादृशविषयताया विभिन्नरूपेणोभयनिश्चयप्रतिबध्यतावच्छेदकतया नासंभवः (ग० पक्ष० पृ० ४) इति । एतच्चिन्त्यम् । चिन्ताबीजं तु वह्नित्ववह्नयभावत्वोभयपुरस्कारेण वह्नयभावावगाहिनि पर्वतो वह्नयात्मकवह्नयभाववान् इति समुच्चयेतिव्याप्तिः
इति । शिष्टं तु पक्षताशब्दव्याख्याने दृश्यम् । संशयसमः-(जातिः) [क] सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने
नित्यानित्यसाधासंशयसमः ( गौ० ५।१।१४ )। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्भटवदित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्नानन्तरीयकत्वेस्त्येवास्य नित्येन सामान्येन साधर्म्यमैन्द्रियकत्वम् अस्ति च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org