________________
न्यायकोशः ।
1
त्रिविधम् नित्यम् नैमित्तिकम् काम्यं चेति । तत्र नित्यम् नियतनिमित्तोपाधौ चोदितम् । यथा अहरहरमावास्याष्टकादिषु विहितं श्राद्धम् । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकम् । यथा पुत्रजन्मादिषु विहितं श्राद्धम् । फलकामनोपाधौ विहितं काम्यम् । यथा स्वर्गादिकामनायां कृत्तिका दिनक्षत्रेषु विहितं श्राद्धम् । पुनश्च पञ्चविधम् अहरहः श्राद्धम् पार्वणम् वृद्धिश्राद्धम् एकोद्दिष्टम् सपिण्डीकरणं चेति ( मिता० अ० १ लो० २१६) । [ख] पित्राद्युद्देश्यको यागः (का० व्या० पृ० ५ ) । संबोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्य पुत्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेदनं श्राद्धम् इत्यर्थः । अत्र विभक्तिनियमश्च संकल्पासनयोः षष्ठी द्वितीयावाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः संबोधने स्मृताः ॥ इति । श्राद्धस्य यागत्वं विज्ञाय श्राद्धकाले ब्राह्मणा इमां स्मृतिं पठन्ति चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ इति । तदर्थस्तु चतुर्भिः ( आश्रावय इत्यध्वर्युप्रयोज्यैश्चतुरक्षरैः ) चतुर्भिः ( अस्तु श्रौषट् इत्याग्नीधप्रयोज्यैचतुरक्षरैः ) द्वाभ्याम् (यज इत्यध्वर्युप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् ) पञ्चभिः (ये यजामहे इति होतृप्रयोज्यैः पञ्चभिरक्षरैः ) द्वाभ्याम् ( वौषट् इति होतृप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम्) एभि: सप्तदशभिरक्षरैयो हूयते हवनकर्मीक्रियते स विष्णुः मे मम प्रसीदतु प्रसन्नो भवतु इति । अत्र यजुः श्रुतिः प्रमाणम् आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार. एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तो य एवं वेद प्रति यज्ञेन तिष्ठति ( तैत्तिरीयसंहि० काण्ड० १ अ० ६ अनु० ११ ) इति । श्राद्धे ब्राह्मणसंख्यानियमो याज्ञवल्क्येनोक्तः । यथा द्वौ दैवे प्राक् पित्र्ये उद्गेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेशिकम् ॥ ( याज्ञ० अ० १ श्लो० २२८ ) इत्यादि । श्राद्धदेवाश्च दशविधा गणदेवताभेदाः । यथोक्तम् वसुत्यौ ऋतुदक्षौ कालकामौ धुरिः कुरुः । पुरूरवा मार्दवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ ( वाच० पृ०४९२५ ) इति । अन्यच क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा धुरिः । रोचनो माद्रवा -
1
त्रयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org