________________
न्यायकोशः ।
२ परिशेषः । यथा सदनित्यमित्येवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य तस्मिन्द्रव्य कर्मगुणसंशये न द्रव्यमेकद्रव्यत्वात् न कर्म शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्वप्रतिपत्ति: ( वात्स्या० १|१|५ ) । ३ शाब्दिकास्तु उक्तादन्यः शेषः । तदर्थश्च उक्तात् कर्मत्वकरणत्वसंप्रदानत्वापादानत्वाधिकरणत्वादिभ्यः अन्यः संबन्धादिः शेषः इति । कारकाणामविवक्षेति भावः । यत्र न कारकं कारकार्थो वा विवक्ष्यते स शेषः । तद्यथा ब्राह्मणस्य कमण्डलुः ( न्या० वा० १ पृ० ११ ) इति । यथा वा प्रमाणादीनां तत्त्वम् राज्ञः पुरुषः इत्यादौ । अत्र षष्ठी शेषे ( पाणि० २।३।५० ) इति सूत्रेण शैषिकी षष्ठी । तदर्थश्च कर्मादिकारकेभ्योन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः तत्र षष्ठी स्यात् । यथा राज्ञः पुरुषः पशोर्मुखम् पितुः पुत्रः ( काशिका ० ) । यथा वा चैत्रस्य वासः इत्यादौ षष्ठी ( ग० व्यु० का ० ६ ) । ४ धर्मशास्त्रज्ञास्तु क्वचित् उपयुक्तेतरपदार्थ: अवशिष्टः ( अजपालः ) । यथा श्राद्धशेषः भुक्तशेषः इत्यादी इत्याहुः । अत्र प्रसङ्गतः शेषरक्षणनिषेधः संगृह्यते । ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ ( गरुडपु० ) इति । ५ व्यवहार - शास्त्रज्ञास्तु तदितरः ( मनु० टी० सर्वज्ञनारा० ९ | १०५ ) । यथा ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ( मनु० अ० ९ श्लो० १०५ ) इत्यादी इत्याहुः । ६ मीमांसकास्तु [क] परोद्देशेन प्रवर्तमानो गुणीभूतः पदार्थः शेषः (अङ्गम् ) । यथा बादरिमते द्रव्यगुणसंस्काराः शेषभूताः । जैमिनिमते तु कर्माण्यपि शेषभूतानीत्याहुः ( शाबरभा० ३।१।४ ) । अत्र शेषत्वं च तदुद्देश्यकेच्छाविषयत्वम् । शेषित्वं तद्देश्यत्वमेव इति बोध्यम् (वै० सा० कारके ० ४ पृ० १९५ ) । अत्र सूत्रम् शेषः परार्थत्वात् (जैमि० ३।१।२ ) इति । तत्र भाष्यम् यः परस्योपकारे वर्तते स शेषः ( शावरभा० ३ | १| २ ) इति । तथा द्रव्यगुण संस्कारेषु बादरिः ( जै० ३|१|३ ) इति कर्माण्यपि जैमिनिः फलार्थत्वात्
1
Jain Education International
For Personal & Private Use Only
८८७
www.jainelibrary.org