________________
न्यायकोशः।
८२९
व्यापकत्वम्-१ [क] तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् ( न्या० बो० )। अत्र व्युत्पत्तिः विशेषेणाप्नोति (वि आप ण्वुल्) इति व्यापकः । तस्य भावो व्यापकत्वम् । अनया व्युत्पत्त्या व्याप्तिकर्तृत्वं लभ्यते । तच्च व्याप्तिनिरूपकत्वम् । यथा पर्वते धूमेन वह्निसाधने वढेधूमनिष्ठव्याप्तिनिरूपकत्वरूपं व्यापकत्वम् (प्र० च० २ पृ० १९)। [ख] तद्वन्निष्ठभेदप्रतियोगितानवच्छेदकत्वम् । तदर्थः यत् यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं न भवति तत् तद्व्यापकम् इति ( न्या० सि० दी० पृ० ५६ ) । यथा वह्नधूमव्यापकत्वम् । तथा हि धूमसमानाधिकरणो योन्योन्याभावः न वह्निमद्भदः अपि तु जलबद्भेद एव । तत्प्रतियोगितानवच्छेदको वह्निर्भवति इति वह्निधूमव्यापको भवति । [ग] तत्समानाधिकरणा यावन्तो धर्मा यत्समानाधिकरणाः तत्त्वम् ( न्या; म० २ पृ० १६ )। यथा मनुष्यत्वसमानाधिकरणयावद्धर्माणां प्राणित्वसामानाधिकरण्यात्प्राणित्वस्य मनुष्यत्वव्यापकत्वम् । [घ ] स्वप्रतिबद्धबुद्धिजनकत्वं यत्स्वरूपम् तदेव व्यापकत्वम् इति प्राश्च आहुः (त० भा० )। [3] निरुक्तप्रतियोग्यनधिकरणहेतुमन्निष्ठाभावप्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुभयाभावः तेन संबन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्यापकत्वम् ( दीधि० २ व्याप्तिनि० ) (मु० २ व्याप्तिनि० )। निरुक्तप्रतियोगीत्यस्य प्रतियोगितावच्छेदकसंबन्धावच्छिन्नप्रतियोगिताको यादृशः अभावो लक्षणघटकत्वेनाभिमतः तस्य प्रतियोगीत्यर्थः । इदं च साध्यस्य हेतुव्यापकत्वम् इति बोध्यम् । यथा पर्वतः संयोगेन वह्निमान् धूमादित्यादौ वह्न मव्यापकत्वम् । अत्रायं नियमः व्याप्यव्यापकभावो हि भावयोर्यागिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते। साध्याभावोन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥ ( त० भा० १ ) ( त०कौ० २) इति । [च ] यन्निरूपितसाध्यतावच्छेदकताघटकसंबन्धसामान्ये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org