SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ८२२ न्यायकोशः। . व्यतिहारः-१ [क] परस्परकरणम् (ल० म०) । [ख] परस्परैक जातीयक्रियाकरणम् । यथा केशाकेशि दण्डादण्डि इत्यादौ । अत्र परस्परं केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तते इति दण्डैश्च दण्डैश्च गृहीत्वेद युद्धं प्रवर्तते इति चार्थो बोध्यते । यथा वा अन्योन्यं ताडयत इत्यादौ व्यतिहारः । २ परिवर्तनम् ( विनिमयः ) ( हेमच०)। . व्यतीपातः-श्रवणाश्विधनिष्ठा नागदैवतमस्तकैः । अमा चेद्रविवारेण व्यतीपातः स उच्यते ॥ ( पु० चि० पृ० ३१७ )। व्यधिकरणत्वम्-१ [क] तदनधिकरणवृत्तित्वम् (त० प्र०२) (मु० २) (ग० २ चतु० चक्र० ) । यथा कपिसंयोगाभावस्य स्वप्रतियोगिकपिसंयोगव्यधिकरणत्वम् । [ ख ] तदधिकरणावृत्तित्वम् ( मू० म० १)। यथा घटत्वाभावस्य स्वप्रतियोगिघटत्वव्यधिकरणत्वम् । २ कचित् साध्यतावच्छेदकसंबन्धसामान्ये स्वप्रतियोगिप्रतियोगिकत्व हेत्वधिकरणीभूतयत्किचिव्यक्त्यनुयोगिकत्वसामान्य एतदुभयाभावः तत्कत्वम् (दीधि० २ व्याप्ति० सिद्धा० )। अत्र स्वपदेनाभावो ग्राह्यः । इदं व्यधिकरणत्वं तु सिद्धान्तसिद्धव्याप्तिघटकाभावनिष्ठम् प्रतियोगिवैयधिकरण्यशब्देन . व्यवह्रियते इति विज्ञेयम्। व्यधिकरणधर्मावच्छिन्नाभाववादी-प्रतियोग्यवृत्तिधर्मावच्छिन्नप्रतियोगि ताकाभाववादी। यथा सौन्दडोपाध्यायः (ग० २ व्याप्ति० चतु० अवतरणे०)। स च घटत्वेन पटाभावम् घटत्वेन वाच्यत्वाभावम् घटत्वपटत्वोभाभ्यां प्रमेयसामान्याभावं च एवमादीन व्यधिकरणधर्मावच्छिन्नाभावानङ्गीकरोति । गङ्गेशोपाध्यायादयस्तु तादृशाभावानाङ्गीचक्रुः इति विज्ञेयम् । व्यधिकरणधर्मावच्छिन्नाभावनिराकर्तुः प्रतिज्ञावाक्यं च प्रतियोग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदको भवति (चि० २ व्याप्तिनि० ) इति विज्ञेयम् (ग० चतु० खण्ड० पृ० ६७ )। ब्यपदेशः-१ शब्दप्रयोगः ( दि. १।३ पृ० १०८ ) । यथा अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १।१।४) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy