________________
८१२
न्यायकोशः। वैराग्यम्-[क] दोषदर्शनाद्विषयत्यागेच्छा ( प्रशस्त० २ पृ० ३३ )। । [ख] भोगानभिषङ्गः (न्या० वा० १ पृ० २७)। [ग] योगशास्त्र.. ज्ञास्तु दृष्टानुअविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (पात०यो० - सू० १।१५)। ऐहिकपारत्रिकविषयादौ दोषदर्शनान्निरभिलाषस्य ममैते
विषया वश्याः नाहमेतेषां वश्यः इति विमर्शः इत्याहुः ( सर्व० सं० पृ० . ३६६ पात० )। वैराग्यं च तत्त्वज्ञानाद्विषयदोषदर्शनाद्भवति ( न्या० - वा० १ पृ० ३७)। तच्च वैराग्यम् शमदमानन्तरं ज्ञानद्वारा मोक्षहेतुश्च - भवति ( विवेकचूडामणौ )। वैलक्षण्यम्-भेदकधर्मः । शिष्टं तु विलक्षणशब्दे द्रष्टव्यम् । वैशिष्टयम्-१ [क] संबन्धः । यथा भूतलं घटविशिष्टम् इत्यादौ घट
भूतलयोः संयोगनामा संबन्धो वैशिष्ट्यम् । [ख] यस्य यत्र यः संबन्धः स एव तत्र तस्य वैशिष्ट्यम् । यथा दण्डी पुरुषः इति ज्ञाने दण्डसंबन्धः पुरुषेवगम्यते ( चि० १ निर्विक० पृ० ८१२ )। २ वैलक्षण्यम् । ३
भेदो वा। ४ आधेयोतिशयविशेषः इति केचिद्वादिनः स्वीकुर्वन्ति । वैशेषिकम् -१ कणादप्रणीतं शास्त्रम् । अत्रेदं विज्ञेयम् । कश्यपगोत्रोत्पन्नः .. कणादमुनिः अथातो धर्म व्याख्यास्यामः इत्यारभ्य तद्वचनादाम्नायस्य
प्रामाण्यमिति इत्येतत्पर्यन्तं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्शनाख्यं तर्कशास्त्रं प्रणिनाय इति । अत्र कणादशब्दस्य व्युत्पत्तिः । तस्य कापोती वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनिमित्ता कणादसंज्ञा । अत एव निरवकाशः कणान्वा भक्षयतु इत्युपालम्भस्तत्रभवताम् (न्या० क० पृ० २)। शास्त्ररूपार्थे वैशेषिकशब्दस्य व्युत्पत्तिः विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः इति। २ तच्छास्त्राभिज्ञः। यथा प्रशस्तपादोद्योतकराचार्या दिवैशेषिकः । अत्रोक्तम् द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥ ( सर्व० सं० पृ० २२० औलू० ) इति । विशेषसंज्ञकः गुणः । यथा आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org