________________
७३२
न्यायकोशः। कौ० ख० ४ पृ० १६) । अत्रेदमवधेयम् । वाक्यार्थरूपान्वयविशिष्टे पदानां शक्तिः इति भाट्टा आहुः । तन्न सहन्ते नैयायिकाः । तथा हि। अनन्यलभ्यः शब्दार्थः इति नियमेनान्वयविषयकशाब्दबोधे तत्तदानुपूर्वीज्ञानत्वेन हेतुतया तद्वलादेवान्वयभानोपपत्तावन्वयविशिष्टे शक्तिकल्पनं व्यर्थमेव । शक्यस्यैव शाब्दविषयत्वम् इति नियमस्वीकारे लक्षणोच्छेदापत्तिः ( त० प्र० ख० ४ पृ० २७ ) इति। [ग] वाक्यघटकप्रत्येकपदोपस्थितानां पदार्थानामाकाङ्क्षादिज्ञानवशात्परस्परान्वयिभावापनोर्थः । यथा गामानय इत्यत्र गोकर्मत्वानयनकृतीनां प्रत्येकं तत्तत्पदोपस्थापितानामाकाङ्क्षाबलात्परस्परमन्वयी गोनिष्ठकर्मत्वनिरूपकानयनानुकूलकृतिमान् इति वाक्यार्थः । [घ ] शाब्दिकास्तु पदार्थानां मिथोन्वयरूप .. उद्देश्यविधेयभावसंबन्ध इत्याहुः । वाक्यार्थज्ञानम्-शाब्दबोधः । स च एकपदार्थे अपरपदार्थसंसर्गविषयकं
ज्ञानम् ( वाक्य० ४ पृ० २० )। यथा घटमानय इत्यादौ धात्वर्था
नयनरूपक्रियायां घटम् इति द्वितीयान्तार्थघटकर्मत्वनिरूपकत्वरूपसंसर्ग' विषयकं ज्ञानम् ( त० सं० )। वाचकम्-१ ( पदम् ) [क] ईश्वरसंकेतेन ( शक्त्या ) अर्थबोधक
पदम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदम् (ग० शक्ति० पृ० ३)। इदं मुख्यं पदम् इत्युच्यते। इदं च प्राचीनमताभिप्रायेण । तथा हि। प्राचीनमते संकेतो द्विविधः । शक्तिः परिभाषा च। तत्रेश्वरसंकेत एव शक्तिः इत्युच्यते । तेनैवार्थबोधकं पदं वाचकम् इत्युच्यते । परिभाषया अर्थबोधकं तु पदं पारिभाषिकम् इत्युच्यते। नव्यमते तु इच्छामात्रस्य संकेतरूपत्वेन शक्तिपरिभाषयोरैक्यात् परिभाषयाप्यर्थबोधकं पदं वाचकम् इति व्यवह्रियते इति विशेषो ज्ञेयः । [ख] शक्त्यार्थबोधकं पदम् । यथा प्रवाहवाचकं गङ्गापदम् । यथा वा गोघटादिव्यक्त्युपस्थापकं गोघटादिपदम् ( त० कौ० ४ पृ० १६ )। तदुक्तम् साक्षात्संकेतितं योर्थमभिधत्ते स वाचकः ( काव्यप्र० उल्ला० २ श्लो० ७ ) इति । , गौणं तु लाक्षणिकं पदम् (त० को० ४ पृ० १६ )। २ कथकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org