________________
न्यायकोशः
इत्यादौ धात्वर्थः । अत्र पञ्चम्यर्थः कर्तृत्वनिरूपकत्वम् । तस्य अन्तर्धिः घटकदर्शनेन्वयः । एवं च उपाध्यायकर्तृकदर्शनविषयतायाः यः स्वनिष्ठः अभावस्तदुद्देश्यकव्यापारकर्ता छात्र इत्यन्वयबोधः ( ग० व्यु० ५ ) । छात्रो हि मामुपाध्यायो न पश्यतु इतीच्छया दर्शनाभावप्रयोजकं व्यापारं करोतीति फलितार्थः । अथवा अत्र - पञ्चम्या वृत्तित्वमर्थः । तस्य धात्वर्थतावच्छेदके प्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । तथा च उपाध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ्छिष्यः इति
1
वाक्यार्थः ( का० व्या० पृ० १०।११ ) । अन्तर्यामी — सकलजीवनियामकः । य आत्मनि तिष्ठन्नात्मानमन्तरो
यमयति इति श्रुतिः ।
अन्तिकत्वम् —— दैशिकमपरत्वम् ( मु० ९३ ) । यथा दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ( भा० प० ४७ ) इत्यादौ । तद्धि प्रयागस्य जनस्थानमपेक्ष्य वाराणस्यन्तिकत्वम् ।
I
अन्त्यः- - १ अवसाने वर्तमानः । यथा विशेष: ( मु० ११३७ ) । इदमत्राकूतम् । परमाण्वादिनित्यपदार्थ व्यावर्तकत्वेन परमाण्वादौ विशेषाख्यः पदार्थः सिद्धान्ते स्वीकृतोस्ति । तथा च तत्तद्विशेषव्यावृत्त्यर्थमपि विशेषान्तरस्वीकारेनवस्था स्यात् । अतः परमाण्वादिवृत्तितत्तद्विशेषः स्वस्य स्वयमेव व्यावर्तकः । तदपेक्षया विशेषान्तरं नास्तीति विशेषोन्स्यो भवतीति । २ पूर्वस्मिन्सति यस्मात्परो नास्ति सोन्त्य इति शाब्दिका वदन्ति । अन्त्यावयवित्वम् – [ क ] द्रव्यानारम्भकद्रव्यत्वम् ( दि० १।७१ ) । [ख] द्रव्यानारम्भकत्वे सति कार्यद्रव्यत्वम् ( त० कौ० ३ ) । [ग] अवयवजन्यत्वे सत्यवयव्यजनकत्वम् ( सि० च० ६ ) । यथा घटादेरन्स्यावयवत्वम् । इदमत्राकृतम्। परमाण्वादिकपालपर्यन्ता अवयवा द्रव्यान्तरमारभन्ते । घटस्तु न किंचिद्रव्यान्तरमुत्पादयितुं क्षमत इति घटस्यान्त्यावयवित्वमिति ।
अन्यतमम् – [क] तत्तदवृत्तिशून्यम् ( ग० कूट ० ) । [ख] भेदकूटावच्छिन्नप्रतियोगिताकभेदवत् । यथा घटो घटपटस्तम्भान्यतमो भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org