________________
न्यायकोशः ।
भ
1
भक्तिः - १ [क] गौणीशब्दवदस्यार्थोनुसंधेयः । यथा ततो भक्त्या दश दिशः सिद्धाः (प्रशस्त० दिङिरू० पृ० ८ ) इत्यादौ । [ख] भक्तिनम लक्षणावृत्तिः ( जै० सू० वृ० अ० ३ पा० २ सू० ४३ ) । इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवहियते इति वदन्ति । [ग] प्रकर्ष भावाभावः । यथा विल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्षभावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके 1 स च गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः (वै० उ० ७ ११८ ) । २ [क] आराध्यत्वप्रकारकं ज्ञानम् ( कि० व० पृ० ४ ) ( म० प्र० १ पृ० १६ ) ( श० प्र० श्लो० ७२ टी० पृ० ९५ ) ( त० प्र० १ पृ० ६ ) ( सि० च० ) । यथा भक्त्या हरिमुपास्ते इत्यादौ । यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ । [ख] निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेषो भक्तिः इति रामानुजीया आहुः ( सर्व ० ० पृ० १२३ रामा० ) । परे तु सा परानुरक्तिरीश्वरे ( शाण्डि० सू० १११ ) । यथा रस ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति० उ० २/७/१ ) इत्यादौ रसो भक्तिः । यथा वा ब्रह्मसंस्थोमृतत्वमेति ( छान्दो० २।२३।१ ) इत्यादौ संस्थापदवाच्या भक्तिः इत्याहुः ( शाण्डि० सू० टी० २/२ ) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं च भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्यविषयकरागित्वम् । भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा तदनुवर्तनादिहेतुहितसाधनताधी भिन्नात्म विशेषगुणत्वात् यन्नैवम् तन्नैवम् यथा द्वेषः इति ( शाण्डि० टी० ) । अत्र वल्लभीया वदन्ति । इयं भक्तिर्द्विविधा साधनीभूता फलीभूता च । तत्र साधनभूता भक्तिर्ज्ञानाय कल्पते वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ इत्यादौ । फलभूता तु स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यव्यवहिता ययात्मा संप्रसीदति ॥
Jain Education International
For Personal & Private Use Only
६१५
www.jainelibrary.org