________________
___ न्यायकोशः। ध्वनुपनिबद्धेषु चात्ममनसोः संयोगविशेषाद्धर्मविशेषाञ्च यत्प्रातिभं ज्ञानं यथात्मनिवेदनमुत्पद्यते तदार्षमित्याचक्षते (प्रशस्त० पृ. ३२)। अविद्यापि चतुर्विधा संशयविपर्ययस्वप्नानध्यवसायलक्षणा। तत्र यल्लैङ्गिकं तदनिन्द्रियजम् । लिङ्गदर्शनात्संजायमानं लैङ्गिकम् (प्रशस्त० पृ० २६)। इन्द्रियजमपि द्विविधम् । सर्वज्ञीयमसर्वज्ञीयं च । सर्वज्ञीयं योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानम् । असर्वज्ञीयं च प्रत्यक्षं द्विविधम् । सविकल्पकम् निर्विकल्पकं च । तत्र सविकल्पकं ज्ञानं न प्रमाणम् इति कीर्ति दिङ्नागादयो मन्यन्ते । स्वमते तु सविकल्पकमपीन्द्रियार्थसंनिकर्षजत्वात्प्रत्यक्षं निर्विकल्पके प्रमाणं चेति (वै० उ० ८।१।२ ) ( प्रशस्त० पृ० २३ ) । प्रकारान्तरेण विभागो यथा । बुद्धिः प्रथमतो द्विविधा अनुभूतिः स्मृतिश्च । अनुभूतिरपि कणादमते द्विविधा प्रत्यक्षम् अनुमितिश्च । प्रत्यक्षमपि घ्राणजादिभेदेन षड्विधम् । सविकल्पकनिर्विकल्पकभेदेन तथा लौकिकालौकिकभेदेन च द्विविधम् । अनुमितिरपि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिरूपत्रिविधानुमानजन्यत्वात्रिविधा। स्मृतिश्चोपेक्षानात्मकनिश्चयाधीनसमानाकारकभावनाख्यसंस्काराधीनैकविधैव । प्रकारान्तरेणापि बुद्धिर्द्विविधा प्रमा अप्रमा चेति । संशयनिश्चयभेदेनापि बुद्धिर्द्विविधा । वैशेषिकमते सादृश्यज्ञानस्थले पदज्ञानस्थले च तदुत्तरं लिङ्गपरामर्शोत्पत्त्यैवानुमितिभवति । प्रत्यक्षानुमानातिरिक्तस्य प्रमाणान्तरस्यानभ्युपगमात् (वै० वि० ८।१।११)। वेदान्तिमते बुद्धिः सात्त्विकराजसतामसभेदेन त्रिविधा। तत्र सात्त्विकी यथा प्रवृत्ति निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ राजसी यथा यया धर्ममधर्म च कार्य चाकार्यमेव च। अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ तामसी यथा अधर्म धर्ममिति या मन्यते तमसावृता। सर्वार्थाविपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ( गीता अ० १८ श्लो० ३०-३२) इति । बुद्धेः पञ्च गुणा यथा इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org