________________
५९२
न्यायकोशः ।
प्रायश्चित्तम् - [क] दुरितनाशकत्वेन विहितः साधनविशेषः । यथा गोवधे प्रायश्चित्तमित्यादौ ( श० प्र० श्लो० ९३ टी० पृ० १३४ ) । अत्र निमित्तात्कर्मयोगे ( वार्तिक ० ) इत्यनेन सप्तमी ज्ञेया । तथा च जन्यत्वं सप्तम्यर्थः । तस्य प्रायश्चित्तपदार्थैकदेशे दुरितेन्वयः । जन्यत्वे च गोवधादेरन्वयः । प्रायश्चित्तशब्दस्य अङ्गिरः स्मृतौ व्युत्पत्तिः प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥ इति ( वाच० ) । [ख] पापक्षयमात्रसाधनत्वेन विधिबोधितः कर्मविशेषः । अत्र मात्रपदात् तुला-पुरुषाश्वमेधादिव्यावृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो नाशः ( मतभेदेन ) इति विज्ञेयम् ( वाच० ) । प्रारब्धम् – (कर्म) [क] तत्तच्छरीरभोगजनकं हि यत्कर्म तत् । यथा अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ इत्यादौ कर्म प्रारब्धमस्ति ( मु० गु० पृ० २३५ ) । अत्र व्युत्पत्तिः प्रकृष्टमारब्धं स्वकार्यं येन इति ( वाच० ) । जननाय कृतारम्भम् इति यावत् । [ख] देहाद्यारम्भकः अदृष्टविशेषः । तस्य च भोगेनैव क्षयः । न तु ज्ञानेन । प्रारब्धातिरिक्तं कर्म तु ज्ञानेन नश्यति इति विवेकः । अत्रोक्तम् यथैधांसि समिद्धोनिर्भस्मसात्कुरुतेर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ।। ( गीता अ० ४ श्लो० ३७ ) इति । प्रार्थनम् । - १ उत्कर्षप्रतिपादनेच्छा ( कु० ५ टी० ) । यथा देवदत्त प्रार्थना | ईश्वरं प्रार्थयतीत्यादी धात्वर्थ: । २ [क] दानाय प्रेरणम् । प्रेरणा प्रवर्तना । सा च दीयताम् इत्याद्यभिलापरूपा । यथा नृपमर्थं प्रार्थयते याच भिक्षते इत्यादौ धात्वर्थः । अत्र नृपनिष्ठं यदर्थस्य दानं तत्प्रेरणावान इत्यर्थः ( श० प्र० श्लो० ७३ टी० पृ० ११२ ) । [ख] याच्या । यथा बलिं याचते वसुधाम् इत्यादौ । [ग] स्वसंप्रदानकदानधर्मिक संबोध्य कर्तव्यत्वप्रकारक व क्रिच्छाविषयत्वम् । यथा धेनुं दद्यात्वमस्मभ्यमित्यादौ लिङर्थः प्रार्थना । अत्र चैत्रकर्तृकैतादृशवाक्यस्थले
1
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org