________________
न्यायकोशः। प्रादेशिकत्वम्-दैशिकाव्याप्यवृत्तित्वम् ( मु० गु०) (दि० गु० पृ०
१९५)। यथा विभुविशेषगुणानाम् संयोगविभागयोश्च प्रादेशिकत्वम् ( भा० ५० श्लो० १०० )। विभुविशेषगुणाश्च शब्दः बुद्धिः सुखम्
दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कारश्च इति । प्रापणम्-नयनम् ( ग० व्यु० का० २ पृ० ४५ )। प्राप्तिः-१ संबन्धः । यथा अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः
( भा० प० गु० श्लो० ११६ ) इत्यादौ । २ लाभः। स च स्वत्वावच्छिन्नो व्यापारः । यथा धनं प्राप्नोतीत्यादौ धात्वर्थः ( श० प्र० श्लो. ७२ टी० पृ० ९७ ) । ३ प्रापणम् । ४ संहतिः । ५ अणिमाद्यष्टविधैश्वर्यान्तर्गतैश्वर्यविशेषः । तदुक्तम् अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ इति । ६ सुखाङ्गविशेषः इत्यालंकारिका आहुः । अत्रोच्यते संप्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ( सा० द० परि० ६ श्लो० ३४४ ) इति। ७ जरासंधसुता। ८ कंसभार्या ( भा० स० १३ ) (हरिवंश० ९१)। ९ काम
भार्या इति पौराणिका आहुः (भा० आ० अ० ३६ ) ( वाच० )। प्राप्तिसमः—(जातिः) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वात् असाधकत्वाच्च प्राप्तिसमः (गौ० ५।११७)। हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा । न तावत्प्राप्य । प्राप्त्यामविशिष्टत्वादसाधकः । द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा । प्राप्त्या प्रत्यवस्थान प्राप्तिसमः (वात्स्या० ५।११७ ) । प्रतिकूलतर्कदेशनाभासोयम् (गौ० वृ० ५।११७ )। [ख] प्राप्त्या अविशेषादनिष्टापादनेन प्रत्यवस्थानम् ( गौ० वृ० ५।११७ ) । अत्र प्राप्तिश्च साध्यहेत्वोः सामानाधिकरण्यम् ( नील पृ० ४४ )। यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं साध्यते। किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते । उभयोरविशेषादिति ( नील० पृ० ४४)। [ग] प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः । साध्यस्य पूर्वसिद्धिः स्यादिति प्राप्तिसमोदयः ॥ ( ता० र० २ श्लो० १११ )। १ अविशष्टत्वादिति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org