________________
५४८
न्यायकोशः। प्रदोषः-१ अस्तमानं समारभ्य सार्धाः सप्त च नाडिकाः । प्रदोष इति विख्यातस्त्वर्धयाममतः शृणु ॥ (पु० चि० पृ० २२७ )। २ रात्रौ यामद्वयादग्यदि पश्येत्रयोदशीम् । प्रदोषः स तु विज्ञेयः सर्वस्वाध्यायवर्जितः॥ (पु० चि० पृ० ४४२ )। ३ त्रिमुहूर्त प्रदोषः स्याद्भानावस्तंगते सति । नक्तं तु तत्र कुर्वीत इति शास्त्रस्य निश्चयः ॥
(पु० चि० पृ० ४६)। प्रधानकर्मत्वम्- ( कर्मत्वम् ) साक्षाद्धात्वर्थतावच्छेदकफलशालित्वम् ।
यथा गां दोग्धि पय इत्यादौ पयसः प्रधानकर्मत्वम् । अत्र साक्षाद्धात्वर्थतावच्छेदकत्वं च धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वम् । गां दोग्धि पय इत्यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारस्य दुहधात्वर्थत्वेन साक्षाद्धात्वर्थतावच्छेदकीभूतक्षरणरूपफलाश्रयत्वात्पयसः प्रधानकर्मत्वम् (ग० व्यु० का० २ पृ० ४४ )। अत्र शब्दशक्तिप्रकाशिकाकारास्तु मोचनानुकूलव्यापारो दुहधात्वर्थः । मोचनं च बहिःक्षरणानुकूलक्रिया। तत्र क्षरणं पयोनिष्ठम् । तदनुकूलक्रिया तु गोनिष्ठा । तथा च साक्षाद्धात्वर्थतावच्छेदकीभूततादृशमोचनक्रियाश्रयत्वेन गोः प्रधानकर्मत्वम् । तादृशक्रियायां विशेषणीभूतस्य परंपरया धात्वर्थतावच्छेदकस्य क्षरणस्याश्रयः पयः इति पयसः अप्रधानकर्मत्वम् इत्यङ्गीचक्रुः ( श० प्र० श्लो० ७३, ७७ टी० पृ० ९८, १०५ )। वैयाकरणास्तु कर्तृप्रत्ययसमभिव्याहारे प्रधानभूतव्यापारविशेषणफलाश्रयत्वम् । यथा देवदत्तो ग्राममजां नयतीत्यत्र गां दोग्धि पय इत्यत्र च अजाया गोश्च कर्मत्वम् । अत्रायं विशेषः । ण्यन्तविषय ईदृशप्राधान्यस्यैव ग्राह्यत्वम् । तञ्चोक्तोदाहरणयोः स्पष्टम् । तण्डुलानोदनं पचति काष्ठं भस्म करोतीत्यादौ निवर्त्यमानौदनभस्मनोरेव । तन्निष्ठफलविशेषणकव्यापारस्यैव तत्सूत्रस्थभाष्येण शाब्दप्राधान्यप्रतीतेः । तण्डुलरूपे कर्मणि लादय इति तु नव्यानां प्रमाद एव । दुहादिषु भाष्ये गणनाभावाच्च । अत्र विक्लेदनम् निर्वर्तनं च पचेरर्थः । तण्डुलान् विक्लेदयन् ओदनं निर्वर्तयति इत्यर्थः । कर्तुरीप्सिततमं कर्म (पा० सू. १।४।४९) इति सूत्रेणैव द्वयोः कर्मत्वम् (ल० म० सुबर्थ० कार० २ पृ० ८९)। नीहकृष्वहां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org