________________
५०६
न्यायकोशः।
पूर्वत्वम्-१ प्रागभाववत्त्वम् (ग० सार्व० पक्षं० पृ० ३८ ) । यथा । कारणस्य कार्योत्पत्तिपूर्वक्षणवृत्तित्वम् इत्यादी क्षणस्य पूर्वत्वम् । यथा . वा फाल्गुनस्य मासस्य चैत्रात्पूर्वत्वम् । अत्र पूर्वत्वं चाद्यत्वमिति लौकिक
जना वदन्ति । २ उदयगिरिसंनिहितदेशावच्छिन्नत्वम् । यथा पूर्वो प्रामादित्यत्र । अत्र पूर्वपदार्थैकदेशे तादृशसंनिहितत्वे प्रामाधवधिकत्वं ‘पञ्चम्या बोध्यते ( श० प्र० श्लो० ९३ टी० पृ० १२७)। ३ क्रियाजन्यसंयोगप्रतियोगिदेशत्वम् यथा । मुंबईतो झळकीमामं गच्छत
उत्तरोत्तरदेशमपेक्ष्य पूर्वपूर्वदेशस्य पूर्वत्वम् । पूर्वपक्षः-१ [क] शास्त्रीयसंशयनिरासार्थप्रश्नरूपा फक्किका। [ख]
सिद्धान्तविरुद्धकोटिः। [ग] अधिकरणावयवविशेषः। अत्रोक्तम् विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् इति । २ प्रतिज्ञापरपर्यायः भाषापत्ररूपः प्रथमावयवः पूर्वपक्षः । अयं चाभियोग इत्युच्यते ( फिर्याद इति प्र०)।
अत्रोक्तं बृहस्पतिना पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा। क्रिया. पादस्तृतीयस्तु चतुर्थो निर्णयस्तथा ।। इति ( वीरमित्रो० अ० २
लेख्य० पृ० ६०)। पूर्ववत्—(अनुमानम् ) १ यत्र कारणेन कार्यमनुमीयते । यथा मेघोन्नत्या
भविष्यति वृष्टिरिति ( वात्स्या० ११११५) (गौ० वृ० १११।५ )। 'अत्रार्थे पूर्ववत् इत्यत्र पूर्व कारणम् तद्वत्तल्लिङ्गकम् इति व्युत्पत्तिर्द्रष्टव्या
( गौ० वृ० १।१।५ )। २ यत्र यथापूर्वं प्रत्यक्षभूतयोरन्यतरदर्शनेना"न्यतरस्याप्रत्यक्षस्यानुमानम् । यथा धूमेनाग्निरिति (वात्स्या० १।१।५ )। अत्र सांख्यानामयमर्थः । दृष्टवलक्षणसामान्यविषयं यत् तत् पूर्ववत् ।
पूर्व प्रसिद्धं दृष्टस्वलक्षणसामान्यमिति यावत् । तदस्य विषयत्वेनास्यनु* मानज्ञानस्येति पूर्ववत् । यथा धूमावह्नित्वसामान्यविशेषः पर्वतेनुमीयते। 'तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणवह्निविशेषो दृष्टो रसवत्याम् ( सांख्य० कौ० का० ५ टी० पृ० १०)। ३ केवलान्वयि । यथा अभिधेयं प्रमेयत्वादित्यादि (गौ० वृ० १।१।५ )। अत्रार्थे पूर्ववत् इत्यत्र पूर्वमन्वयव्याप्तिः तद्वत् इति व्युत्पत्तिर्द्रष्टव्या (गौ० वृ० १।१।५)।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org