________________
न्यायकोशः।
। ५.५ पुर्यष्टकम्-१ स्यात्पुर्यष्टकमन्तःकरणं धीकर्म करणानि ( सर्व० सं०
पृ० १८४ शै० ) । २ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् ।
बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् ॥ ( सर्व० पृ० १८५ शै०)। पुष्करम्-अमा सोमे तथा भौमे गुरुवारे यदा भवेत् । तत्तीर्थ पुष्कर
नाम सूर्यपर्वशताधिकम् ।। ( पु० चि० पृ० ३१७ )। पुस्तम्-लिप्यादिशिल्पकर्मयुतं वस्तु । यथा पुराणपुस्तकम् इत्यादि । किंच
मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि
पुस्तमित्यभिधीयते ॥ पूगः-भिन्नजातीनां भिन्नवृत्तीनामेकस्थाननिवासिनां समूहः । यथा प्राम
नगरादयः ( मिताक्षरा अ० २ श्लो० ३० )। पूजा-[क] आराधना। [ख] उपासना । पूरकः-(प्राणायामः ) बाह्यस्य वायोरन्तर्धारणम् ( सर्व० सं० पृ० __३७७ पात० )। पूर्णा-पित्र्येस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते (पुरु० चि० पृ० ४०)। पूर्णिमा-कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । चन्द्रादित्यौ पराहे
तु पूर्णत्वात्पूर्णिमा स्मृता ॥ (पुरु० चि० पृ० ३१७ )। पूर्वकालीनत्वम्-[क] कालिकसंबन्धेन तत्प्रागभाववत्त्वम् । इदं च
ध्वंसस्य ( जन्यमात्रस्य ) कालोपाधित्वपक्ष एव संगच्छते इत्यवधेयम् (ग० सार्व० पक्ष० पृ० ३८)। यथा अनुमित्यव्यवहितपूर्ववृत्तिसिद्धिभिन्नसिद्धयभावमात्रं पक्षता (दीधि० २ पक्ष० पृ० २२७ ) इति पक्षतायाः . शरीरप्रविष्टे अनुमितिपूर्वकालीनध्वंसाप्रतियोगित्वरूपे अव्यवहितत्वरूपे शरीरे ध्वंसस्य पूर्वकालीनत्वम् । [ख] प्रागभावकालवृत्तित्वम् । यथा भुक्त्वा व्रजतीत्यत्र भोजने गमनप्रागभावावच्छिन्नकालवृत्तित्वम्। [ग] तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वं वा (तर्का० ४ पृ० ११)। यथा ज्येष्ठस्य पुरुषस्य कनिष्ठं पुरुषमपेक्ष्य • पूर्वकालीनत्वम् । इदं च प्रागभावानभ्युपगन्तृमतेपि युज्यते इति बोध्यम्
(ग० सार्व० पक्ष० पृ० ३८ )। ६. न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org