________________
૮
न्यायकोशः ।
पातकम् - [क] पातित्य जनकदुरदृष्टप्रयोजक क्रियाविशेषः । यथा गोब्राह्मणवधादि पातकम् । अत्र महापातकान्युच्यन्ते ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ इि ( मनु० अ० ११ श्लो० ५५ ) । उपपातकानि तु गोवधोयाज्ये संयाज्यपारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायानयोः सुतस्य च ॥ इत्यादि (मनु० अ० ११ श्लो० ५९-६६ ) । [ ख ] पापजनकं कर्म । पातालम् — एकषष्ट्यधिकशतत्रयपरिमिता संख्या ( अतलशब्दे दृश्यम् ) । पानम् — १ द्रवद्रव्यस्य गलाधः संयोजनम् । यथा पानीयं पातुमिच्छामि कमललोचने इत्यादौ । २ रक्षणम् । यथा पाहि मां भवसागरात् इत्यादौ । ३ . निःश्वासः ( वा० ) ।
त्वत्तः
पापम् – १ ( गुणः ) वेदैकप्रतिपाद्येोनिष्टसाधनमदृष्टविशेषः । अधिकं तु अधर्मशब्देनुसंधेयम् । २ सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ( सर्व० सं० पृ० ८७ आर्ह ० ) ।
पारदः – संसारस्य परं पारं दत्तेसौ पारदः स्मृतः ( सर्व० सं० पृ० २०२ रसेश्व० To ) 1 पारमार्थिकत्वम् — १ प्रमाविषयत्वम् । यथा घटपटादीनां पारमार्थिकत्वम् । २ [क] कालत्रयसंबन्धित्वम् । [ख] केचिद्वेदान्तिनस्तु त्रिकाला - बाध्यत्वम् । यथा ब्रह्मणस्तत्सत्तायाश्च पारमार्थिकत्वम् इत्याहुः | अत्रेदं ज्ञेयम् । अपारमार्थिकत्वं तु पारमार्थिकत्वाभाव एव । यथा खपुष्पशशशृङ्गकूर्मरोमवन्ध्यापुत्रादीनामपारमार्थिकत्वम् इति । ३ निःश्रेयससाधनत्वम् इति कर्मज्ञा आहुः । ४ स्वाभाविकत्वम् इति काव्यज्ञा आहुः । पारिणामिकः - कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः ( सर्व० सं० पृ० ६९ आई० ) । पारिभाषिकम् – ( शब्दः ) आधुनिकसंकेतेनार्थबोधकं पदम् । यथा
1
: ११ अयाज्येति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org