________________
न्यायकोशः ।
४२३
३ परिगणितं द्रव्यम् । यथा भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ( याज्ञ० अ० २ श्लो० १२४ ) इत्यादौ इति व्यवहारज्ञा आहुः . अत्र मिताक्षरा निबन्धः एकस्य पर्णभारकस्येयन्ति पर्णानि तथा एकस्य क्रमुकफलभारकस्येयन्ति क्रमुकफलानि इत्याद्युक्तलक्षणः ( याज्ञ० मि० २ लो० १२४ ) इति । ४ मूत्ररोधरूपो रोगविशेषः इति भिषजः । ५ बन्धनम् ६ ग्रन्थः प्रन्थविशेषश्च ।
निबन्धनम् — १ [क] प्रयुक्तम् । यथा वातादिनिबन्धनं दुःखमित्यादौ । [ख] जन्यम् । २ हेतुभूतम् । अत्रार्थे व्युत्पत्तिर्द्रष्टव्या निबध्यतेनेनात्र वा इति । ३ वीणायास्तनीनिबन्धनमूर्ध्वभागः इति गायका आहुः ( वाच० ) । :
निमन्त्रणम् – आवश्यके कर्मणि श्राद्धभोजनादौ प्रवर्तकं वाक्यम् । यथा ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ( याज्ञ० २।२६३ ) इति । निमन्त्रयेत् पूर्वेद्युर्ब्राह्मणानात्मवाच्छुचिः ( याज्ञ० ११२२५ ) इति च । तच्च निमन्त्रणम् भवतात्र भोक्तव्यम् इत्यादि वाक्यम् ( श० प्र० श्लो० १०० टी० पृ० १५५ ) । अत्रोच्यते यस्याकरणे प्रत्यवायस्तत् निमन्त्रणम् इति । एतच्च नित्यम् । अत्र नित्यत्वं च प्रत्यवायसाधनीभूताभावप्रतियोगित्वम् (वाच० ) । यथा वा निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् ( भार० व० अ० २२५ ) इत्यादी ( वाच० ) ।
निमन्त्रितत्वम् — स्वकर्तव्यत्वप्रकारकधीजनकमप्रत्याख्येयं यद्वाक्यम् तत्प्रतिपाद्यत्वम् । यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम् इत्यादौ श्राद्धे भोजनाय निमन्त्रितो भवान् इत्यनुभवान्निमन्त्रितत्वं लिङर्थः । अत्र स्वपदं निरुक्तप्रतिपाद्यत्वाभिमतभवदादिपरम् । अप्रत्याख्येयत्वं च प्रत्यवायज्ञनकप्रत्याख्यानकत्वम् । तादृशधीजनकवाक्यं च भवतात्र भोक्तव्यम् इत्यादिकं निमन्त्रणरूपम् । तत्प्रतिपाद्यो भवदादिः इति ज्ञेयम् । श्राद्धमुपक्रम्य अनिन्दितेनामन्त्रितो नापगच्छेत् इति श्रुतेः सत्त्वेन तत्प्रत्याख्याने दोषः इति ज्ञेयम् । अत्र यस्य प्रत्याख्याने प्रत्यवायः तन्निमन्त्रणम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org