________________
न्यायकोशः ।
४२१
T
I
पृ० ५४ ) । [ख] अनिष्टबोधनद्वारा विध्यर्थप्रवर्तकं वाक्यम् । यथा स एष वा व प्रथमो यज्ञो यज्ञानां यजयोतिष्टोमो य एतेनानिष्ट्वाथान्येन यजते (सः) गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा ( श्रुतिः ) इत्येवमादि ( वात्स्या० २।१।६४ ) ( गौ० वृ० २ |१| ६४ ) । [ग] निषेध्यनिन्दापरं वाक्यम् । यथा बर्हिषि रजतं न देयम् इत्यादिनिषेधस्य शेषः सोरोदीत् ( तैत्ति० सं० १।५।१।१ ) असृग्धि रजतम् ( शत० ब्रा० ) इत्यादि । अनाम्नायते सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( तैत्ति० सं० १२५|१|१ ) इति । अस्मिन्विषये तैत्तिरीयसंहितायां ( २२५१ ) कथा श्रूयते । पूर्वं देवदैत्यसंग्रामोभूत् । तत्र लब्धं द्रव्यं देवैः कनिष्ठभ्रातुरमेर्निकटे निक्षिप्तम् । तद् द्रव्यं गृहीत्वा पलायमानोग्निर्देवैर्निरुद्धः सन्नरोदीत्। तन्नेत्राभ्रुणो जातस्य रजतस्यामङ्गलत्वेन रजतदक्षिणादाननिन्दा इति । असृग्ध रजतं यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति इति (शतपथब्रा० ) ( तै० सं० १।५।१।२ ) । अस्य वाक्यस्य निषेध्यरजतनिन्दापरत्वमस्ति ( प्र० प्र० पृ० ६४ ) । तथा हि रजतस्यासृग्रूपत्वेनायोग्यत्वात् ऋतावृत्विग्भ्यो रजतदक्षिणादातुर्यजमानस्य गृहे संवत्सरात्प्रामोदनरूपानिष्टबोधनद्वारा बर्हिषि रजतदक्षिणादानं निन्दतीति । यथा वा असत्रं वा एतद्यदच्छन्दोमम् (तैत्ति० सं० ७१४/२/३ ) इत्यादिश्च। अत्रायमभिप्रायः । सत्रं छन्दोमसूक्तयुक्तमेव कर्तव्यम् । तथा अकरणे असत्रम् इति निन्देयम् इति । [घ] अनिष्टसाधनत्वबोधनद्वारा विध्यर्थप्रशंसावचनम् । यथा तैलखीमांससंभोगी पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥ इत्यादि । अत्र नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम् इति न्यायोनुसंघेयः (वा० ) । निपातः - १ अधोदेशसंयोगानुकूलव्यापारः । यथा पयोधरोत्सेधनिपातचूर्णिता: ( कुमार० ५|२४ ) क्व च निशितनिपाता वज्रसाराः शरास्ते (शाकु० अ० १ ) इत्यादौ । २ ( शब्दः ) यः शब्दः केवले यादृशस्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः प्रत्येकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org