SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम् । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा वा चिच्छक्तिः मोक्षः इति पातञ्जलाः । ऊर्ध्वगतिः इति केचित् । निरुपप्लवा चित्तसंततिः इति परे । अग्रिम - चित्तानुत्पादे पूर्व चित्तनिवृत्तिः इत्यपरे । आत्महानिः इत्येके । चित्तानुत्पादनं निरोधो वापवर्गः इत्यन्य आहुः इति ( न्या० वा० १।१।२२ पृ० ८८ ) ( सर्व० ) ( सि० च० पृ० ३७ ) ( न्या० सि० दी० पृ० २५) (वै०वि० १|१|४ पृ० १६ - १७ ) ( पात० सू० ४ | ३४ ) । २ मङ्गलम् । ३ विज्ञानम् । ४ भक्ति । ५ अनुभावः । यथा पण्डितो हार्थकृच्छ्रेषु निःश्रेयसकरं वचः ( भार० स० लो० १६९ ) तपो विद्या हि विप्रस्य निःश्रेयसकरं परम् (मनु० अ० १२ लो० १०४ ) इत्यादी ( याच० ) । ४१४ निःश्वासः - [क] प्राणवायोर्व्यापारविशेषः ( गौ० वृ० ३।१।३० ) । यथा निःश्वस्य मत्करधृतं निजमम्बरान्तमाकृष्य हन्त चलितैव कथं प्रिया मे ( मुकु० भाण ) इत्यादौ । [ख] प्राणवायोर्नासया बहिनिःसरणम् । यथा वृषलीफेनपीतस्य निःश्वासोपहतस्य च (मनु० अ० ३ ० १९ ) इत्यादौ । निक्षेपः – समक्षं समर्पणं निक्षेपः ( मिताक्षरा अ० २ श्लो० ६७ ) । निगदः – १ परप्रत्यायनार्था मन्त्रा निगदाः ( जै० न्या० अ० २ पा०१ अधि० १३ ) । २ देवतासंबन्धबोधकः पदसमूहो निगदः । परसंबोधनार्थलोडन्त पदयुक्तपद समूहो निगद इत्यन्ये ( काव्यप्रदीपोद्योते पृ० २२१ ) । - निगमः – १ न्यायशास्त्रम् । २ तत्र विशेषः । ३ वेदः । यथा निगमकल्पतरोर्गलितं फलम् ( भाग० १|१|३ ) शतं जीव शरदो वर्धमान इत्यपि निगमो भवति ( यास्कनिरुक्त० ) इत्यादौ । निगमनम् – (न्यायावयवः ) [क] हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ( गौ० १ १ ३९ ) । तदर्थश्व हेतोः व्याप्तिविशिष्टपक्षधर्मस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy