________________
४१२
न्यायकोशः। .. ज्ञानमस्ति निःश्रेयसाधिगमश्च । तथा हि (१) त्रय्यां तावत् तत्त्वज्ञानम्
अग्निहोत्रादिसाधनानां याथार्थेन परिज्ञानम् । निःश्रेयसाधिगमोपि
स्वर्गप्राप्तिः । (२) वार्तायां तु भूम्यादिपरिज्ञानं तत्त्वज्ञानम् । कृष्याद्य- धिगमश्च निःश्रेयसम् । (३) दण्डनीत्याम् सामदानदण्डभेदानां यथा
कालं यथादेशं यथाशक्ति विनियोगस्तत्त्वज्ञानम् । निःश्रेयसं पृथिवीजयः इति । (४) इह तु अध्यात्मविद्यायाम् ( आन्वीक्षिक्याम् ) आत्मज्ञानं तत्त्वज्ञानम् । निःश्रेयसांधिगमोपवर्गप्राप्तिः इति ( न्या० वा० १ पृ० २३ )। निःश्रेयसं तावहिविधम् । परम् अपरं च । तत्रापरम् जीवन्मुक्तिलक्षणं तत्त्वज्ञानानन्तरमेव । तदप्यवधारितात्मतत्त्वम्य नैरन्तर्या भ्यासापहृतमिथ्याज्ञानस्य प्रारब्धं कर्मोपभुञानस्य । परं निःश्रेयसं तु क्रमेण भवति (गौ० वृ० १।१।१ ) । उभयविधिनिःश्रेयससाधारणलक्षणं तु सवासनमिथ्याज्ञानध्वंसत्वम् । तत्त्वसाक्षात्कारप्रागभावविरहत्वं वा । अथवा योगजधर्मप्रागभावविरहत्वम् (न्या० सि० दी० पृ० २९)। जीवन्मुक्तौ चोक्तम् जीवन्नेव हि विद्वान् संहर्षायासाभ्यां विमुच्यते इति ( न्या० वा० १ पृ० २४ )। परनिःश्रेयसप्राप्तौ क्रमस्तावत् तत्त्वज्ञानेन मिथ्याज्ञाननाशः । मिथ्याज्ञाननाशे दोषनाशः । दोषनाशे प्रवृत्तिनाशः । प्रवृत्तिनाशे जन्मनाशः। जन्मनाशे दुःखनाशः इति (गौ० वृ० १११।२ )। वार्तिककारास्तु निःश्रेयसं -पुनदृष्टादृष्टभेदात् द्वेधा भवति । तत्र प्रमाणादिपदार्थतत्त्वज्ञानानिःश्रेयसं
दृष्टम् । नहि कश्चित्पदार्थो ज्ञायमानो हानोपादानोपेक्षाबुद्धिनिमित्तं न - भवतीति । एवं च कृत्वा सर्वे पदार्था ज्ञेयतया अपेक्ष्यन्त इति । परंतु
निःश्रेयसमदृष्टम् आत्मादेस्तत्त्वज्ञानाद्भवति । दृष्टम् प्रमाणादिपरिज्ञानात् .. अदृष्टं पुनरात्मादेः प्रमेयस्य परिज्ञानादिति इत्याहुः ( न्या० ... वा० १ पृ० १२) । इदानीं मतभेदेन निःश्रेयसभेदा उच्यन्ते । . स्वातव्यं मृत्यु मोक्षः इति चार्वाका आहुः । आत्मोच्छेदो मोक्षः .. इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदयः इति विज्ञान---- वादिनः । आवरणमुक्तिमुक्तिः इत्यार्हताः । ब्रह्मांशिकजीवस्याविद्या. .: प्रभवमिथ्याज्ञाननिवृत्ती स्वस्वरूपाधिगमः इति मायावादिनः अद्वैतिनः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org