________________
न्यायकोशः 1
४११
[ छ ] एकविंशतिभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः ( त० भा० प्रमेय० पृ० ४१ )। एकविंशतिभेदास्तु शरीरम् षडिन्द्रियाणि षड्विषयाः षड्विधानि प्रत्यक्षज्ञानानि सुखं दुःखं चेति । शरीरादीनां दुःखसाधनत्वादुःखत्वम् । सुखस्य च दुःखसंबन्धादुःखत्वम् । अत्र वार्तिककारा आहुः । श्रेयः पुनः सुखम् अहितनिवृत्तिश्च । तच्छ्रेयो भिद्यमानं द्वेधा व्यवतिष्ठते दृष्टादृष्टभेदेन । दृष्टं सुखम् । अदृष्टमहितनिवृत्तिः । अहितनिवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादेर्दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिभेदभिन्नदुःखहान्या । तस्य हानिर्धर्माधर्मसाधनपरित्यागेन । अनुत्पन्नयोर्धर्माधर्मयोरनुत्पादेन उत्पन्नयोश्चोपभोगात्प्रक्षयेण इति ( न्या० वा० पृ० २ ) ( त० भा० प्रमेय० पृ० ४१ ) । [ ज ] आत्यन्तिको दुःखाभावः ( न्या० वा० पृ० ४ ) । [ झ] अहितनिवृत्तिरात्यन्तिकी ( न्या० क० पृ० ४ ) । तस्याः सद्भावे प्रमाणम् दुःखसंततिर्धर्मिण्यत्यन्तमुच्छि - द्यते संततित्वाद्दीपसंततिवत् इत्यनुमानम् इति तार्किका आहुः ( न्या० क० पृ० ४ ) । [ अ ] नित्यनिरतिशयसुखाभिव्यक्तिः इति दीधितिकृदाह ( ल०म० ) । [ ट ] चरमदुःखध्वंसः ( त० दी ० ) । यथा तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौ० १|१| १ ) इत्यादौ हिरण्यगर्भ - रुद्रादियोग्यजीवानां मोक्षः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० १।१ पृ० ५) । अत्र पदार्थतत्त्वज्ञानस्यात्मतत्त्वज्ञानद्वारा निःश्रेयसं प्रति साधनत्वमुच्यते ( त० कौ० पृ० २१ ) । अत्र विप्रतिपत्तिः । कर्मज्ञानयोस्तुल्यवत्समुच्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा कर्मणां तत्र कारणत्वम् । तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र समुच्चयप्रतिपादिका श्रुतिः विद्यां चाविद्यां ( कर्म ) च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ( ईशा० ) इति । आचार्यमते तु श्रुतिः तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेय - नाय इति ( न्या० सि० दी ० पृ० २४ ) । तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यमिति । सर्वासु विद्यासु चतसृषु तत्त्व -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org