SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। अक्षरम्-१ परं ब्रह्मेति मायावादिन आहुः । २ मोक्ष इत्यपीति वेदान्तिनः । ३ लक्ष्मीरपीति माध्वाः । ४ भगवदंशभूतो भगवद्रूपो धामविशेष इति वल्लभीयाः । ५ अकारादयो वर्णा इति काव्यज्ञाः । ६ वर्णस्मारकरेखा स्मकलिपिसंनिवेश इति लेखकाः । अखण्डोपाधिः-(उपाधिः) अनिर्वचनीयो धर्मः। स च क्लुप्तसप्तपदार्थातिरिक्त एव ( सि० च० ) ( ल० व० )। यथा अनुयोगितात्वप्रति योगितात्वविषयतात्वादिः। अग्निः-तृतीया । ( पु० चि० पृ० ३७ ) अनिदैवत्यम्-कृत्तिका । ( पु० चि० पृ० ३५३ ) अग्निहोत्रहवणी—निर्वापसाधनं काष्ठपात्रम् । अघटकत्वम् -[क] स्वाविषयकप्रतीतिवृत्तितत्तन्निरूपितविषयिताकत्वम् । (ग० कूटा० ) [ख] तद्विषयत्वाव्यापकविषयतावत्त्वम् । यथा वह्नयभावनिष्ठविषयत्वा व्यापकं घटनिष्ठं विषयत्वं तद्वत्त्वस्य घटे सत्त्वेन घटस्य वह्नय भावाघटकत्वम् । वह्नस्तु तद्भटकत्वम् । अङ्गम्-१ प्रयोजकम् उपकारकं. वा । यथा व्याप्तिरनुमित्यङ्गमित्यादौ (सर्वद० पृ० ८ चार्वा०)। २ यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेङ्गमिति शाब्दिकाः। ३ मुख्यफलाजनकत्वे सति मुख्यफलजनकव्यापारजनकमङ्गमिति मीमांसकाः । ४ लग्नमिति मौहूर्तिकाः । ५ शरीरावयवोऽङ्गमिति काव्यज्ञा वदन्ति । . १ अत्रायं नियमो बोध्यः - जात्यखण्डोपाध्यतिरिक्तानामेव धर्माणां निर्वचनाह त्वमिति। २ अत्र च कार्यकालवृत्तित्वेनैव कारणत्वस्य मीमांसकेः स्वीकृतत्वात्प्रयाजादिहोमस्यापूर्व प्रत्येव जनकत्वेन मुख्यफलस्वर्ग प्रत्यजनकत्वमुपपद्यत इति। ... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy