________________
न्यायकोशः। त्यज्- ( धातुः ) त्यागः । अत्रोदाह्रियते। यथा वृक्षं खगत्यजतीत्यादौ
त्यजेरर्थः । अत्र द्वितीयाया विभागोर्थः । तेन वृक्षावधिकविभागवती या विभागावच्छिन्नक्रिया तद्वान् खगः इत्याकारस्तत्र बोधः । अत्रेदं बोध्यम् । वृक्षावधिकविभागवत्त्वं च जनकत्वस्वाश्रयवृत्तित्व एतदुभयसंबन्धेनैव क्रियायां ग्राह्यम् । अतः खगावधिकविभागस्य खगादावसत्त्वात् खगं त्यजति खगः इत्यादिको न प्रयोगः (श० प्र० श्लो० ७२ पृ०९२-९३)। यथा वा त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ
आत्मार्थे पृथिवीं त्यजेत् ॥ (चाणक्य० ) इत्यादौ त्यजेरर्थः । त्यागः-१ विभागावच्छिन्नक्रिया । न माता न पिता न स्त्री न पुत्रस्त्याग
मर्हति ( मनु० अ० ८ श्लो० ३८९)। २ तस्यायं भवतु इत्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छा । यथा एषोयः शिवाय नमः इत्यादौ नमःशब्दार्थस्त्यागः (ग० व्यु० का० ४ पृ० ९९ )। ३ तन्न मम इति ज्ञानम् इच्छा वा (म० प्र० पृ० ५३ )। ४ स्वत्वध्वंसजनकेच्छा। यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः ( श० प्र० ७२ श्लो० पृ० ९५ ) । ५ स्वत्वध्वंसानुकूलव्यापार इति शाब्दिका वदन्ति । स च त्यागः सात्त्विकराजसतामसभेदेन त्रिविध इति वेदान्तिनः । स च स्वत्वध्वंसः मूर्तद्रव्याणामेव भवति । अमूर्तद्रव्याणां तु वियोगमात्रम् इति विज्ञेयम् ( वाच०)। त्रसः -( जीवः ) शङ्खगण्डोलकप्रभृतश्चतुर्विधास्त्रसाः ( सर्व० सं० पृ०
७० आई० )। वसरः-तन्तुवायकृतसूत्रवेष्टनविशेषः ( अमरः काण्ड० ३ संकी०
श्लो० २४)। त्रसरेणुः-१ व्यणुकम्। तद्यथा जालान्तरगते भानौ सूक्ष्मं यदृश्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति (मनु० अ०८ श्लो० १३२)। स च जन्यद्रव्यावयव इति ज्ञेयम् । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः इति (ब्रह्मवै० पु०) (वाच०)। अणुद्वौं परमाणू स्यात्रसरेणुस्त्रयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org