________________
३४२
न्यायकोशः। तेजो वह्नयादिकं च । किंचित् अनुद्भूतरूपस्पर्शम् । यथा नायनं तेजः । किंचित् उद्भूतरूपमनुद्भूतस्पर्शम् । यथा चान्द्रं तेजः प्रदीपप्रभामण्डलं च । अथवा चान्द्रप्रभायां स्पर्शोप्युद्भूत एव । किं तु जलीयस्पर्शेनाभिभवादुष्णस्पर्शो न गृह्यते ( वै० वि० २।१।३ ) (मु० १ ) (सि० च० )। किंचित् अनुद्भूतरूपमुद्भूतस्पर्शम् । यथा नैदाघं तेजः तप्तवारिभर्जनकपालादिगतं च तेजः ( वह्नयादि ) ( वै० उ० २।१।३ ) ( त० भा० पृ० २७ ) ( वै० वि० २।१।३ )। अत्रेदं बोध्यम् । सुवर्ण तेजस्तूद्भूताभिभूतरूपस्पर्शम् नानुद्भूतरूपस्पर्शम् । अनुद्भूतरूपत्वे अचाक्षुषं स्यात् । अनुद्भूतस्पर्शत्वे त्वचा न गृह्येत । अभिभवस्तु बलवत्सजातीयेन पार्थिवेन रूपेण स्पर्शेन च कृतः इति ( त० भा० अर्थ० पृ० २८ )। तेजस्येकादश गुणा वर्तन्ते । भास्वरशुक्लरूपम् उष्णस्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः, विभागः परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् वेगाख्यसंस्कारश्च ( त० भा० अर्थ० पृ० २७ ) ( भा० प० श्लो० ३०') ( त० कौ० १ पृ० २) (प्रशस्त० )। द्रवत्वविषये सूत्रम् त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद्वत्वमद्भिः सामान्यम् ( वै० २।११७ )। उपलक्षणं चैतत् । तेन कांस्यताम्रारकूटपारदपित्तलरङ्गादीनामप्युपसंग्रहः (वै० उ० २।११७ )
(वै० वि० २।१७ ) ( त० कौ० पृ० २)। तैजसम्–१ तेजस्त्वव्याप्यधर्मवत् । यथा चक्षुस्तैजसम् सुवर्ण तैजसम् - इत्यादौ ( मु० १ ) ( वै० उ० २।१।७ )। २ रजोगुणोत्पन्नः पदार्थ - इति सांख्या आहुः । अत्रोच्यते । वैकृतः सात्त्विको नाम तैजसो राजसः
स्मृतः । भूतादिस्तामसस्तेपि पृथक् तत्त्वान्यवासृजन ॥ इति पदार्थादर्शधृतं वाक्यम् )। सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ इति ( सां० का० २५ )। ३ दशेन्द्रियजनकोहंकारतत्त्वप्रभेदः इति मध्वमतानुयायिनः ( मणिमञ्जरी १।३ )। ४ अन्तःकरणं तैजसमिति मायावादिनः । ५ तीर्थविशेष इति पौराणिकाः ( वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org