________________
३३४
न्यायकोशः ।
स्तुल्यो न वधं प्राप्नुयान्नरः । सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ( मनुः ) कुम्भकर्णः कपीन्द्रेण तुल्यवस्थः स्वसुः कृतः ( रघु० स० १२ लो० ८० ) इत्यादौ । [ ख ] भिन्नत्वे सति धर्मवत्त्वम् । यथा चैत्रेण चैत्रस्य वा तुल्य इत्यादौ । अत्र तुल्यशब्दार्थनिविष्टे च भेदे तृतीयाद्यर्थस्य प्रतियोगित्वस्य धर्मे चाधेयत्वस्य अन्वयात् चैत्रत्वावच्छिन्नान्यत्वे सति चैत्रवृत्तिधर्मवान् इत्यर्थः । एवम् चैत्रेण चैत्रस्य वा सादृश्यमित्यादावपि द्रष्टव्यम् । अत्र विशेषो ज्ञेयः पाणिनीयाः तुल्योपमयोर्योगे तृतीयां नेच्छन्ति इति (श० प्र० श्लो० ९२ पृ० १२४ ) । २ [क] अन्यूनानतिरिक्तव्यक्तिकत्वम् । यथा न्यायमते बुद्धित्वज्ञानत्वयोः घटत्वकलशत्वयोर्वा तुल्यत्वम् ( त० प्र० १ ) ( वै० उ० १1१ ) । इदं तु घटकलशत्वादीनां भेदे भिन्न जातित्वे वा बाधकम् इति बोध्यम् ( दि० १।१ पृ० ३४ ) ( नील० ) । [ ख ] तुल्यव्यक्तिवृत्तित्वम् । स्वभिन्नजातिसमनियतत्वमिति फलितार्थः ( दि० १।१ पृ० ३४ ) । यथा घटत्यकलशत्वयोस्तुल्यत्वम् ( त० प्र० १ ) । तुल्यवित्तिवेद्यत्वम् — एकज्ञानविषयत्वम् ( त० प्र० ख० ४ पृ० २१ ) । यथा साधनवद्वृत्तिः साध्याभावो वा हेतुदोष: ( दीधि० २ हेत्वा० ) इत्यत्र प्राचीनमते वह्निमद्वृत्तिधूमाभात्रः इति ज्ञाने धूमाभावे वह्निमद्वृत्तिस्वस्य भासने व धूमाभावद्वृत्तित्वमपि तुल्यवित्तिवेद्यतया नियमतो भासते (ग० सामा० लक्ष० २ पृ० १७ ) । यथा वा गुरुमते आक्षेपाजातिविशिष्टव्यक्तिप्रतीतिः । अत्रायं विशेषो ज्ञेयः । तन्मते जातौ व्यक्तौ च शक्तिः । परंतु जातिविषयकशक्तिज्ञानमेव जातिविशिष्टव्यक्तिविषयकशाब्दबोधे कारणम् । व्यक्तिशक्तिस्तु स्वरूपसती ( न तु ज्ञाता ) उपयुज्यते इति ( त० प्र० ख० ४ पृ० २१ ) । इदं च कुब्जशक्तिवादिगुरुमतैकदेशिनां मतम् इति ज्ञेयम् ( त० प्र० ख० ४ पृ० २२ ) । तृतीया - ( कारकविभक्तिः ) तत्तद्धात्वर्थे करणत्वादिबोधिका विभक्तिः । कारकतृतीयालक्षणं च पच्यर्थ धर्मिककरणत्वान्वयबोधानुकूलसुप्सजातीत्वम् (श० प्र० लो० ६५ पृ० ७५ ) । यथा काष्टेन तण्डुलं
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org