________________
न्यायकोशः ।
२९७
ब्रह्मविद्रव इति श्रुतिश्च निर्दुःखत्वा दिनेश्वरसाम्यं जीवस्याभिधन्ते न तु तदभेदम् इत्यादि (वै० वि० ३।२।२१) । स च जीवः सुखदुःखवैचित्र्यान्नानाभूत एव । तद्यथा कश्चिद्रङ्कः कश्चिदाढ्यः कश्चिदन्यविधः पुनः । अनयैवात्मनानात्वं सिद्धयत्यत्र व्यवस्थया || ( त० व० आ० श्लो० ९० पृ० १५३ ) (वै० ३।२।२० ) । तथा स जीवः प्रतिशरीरं भिन्नः । अत्र भोगवत्त्वे सति अनवच्छिन्नभोगवद्भिन्नो भिन्नशब्दार्थः । द्वितीयार्थोवच्छेद्यत्वं व्युत्पत्तिवैचित्र्याद्भोगे अनवच्छेद्यत्वे चान्वेति । शरीरपदं तु प्रयोज्यतासंबन्धेन तत्तन्मनोविशिष्टपरम् । तेन एकैकात्मनो जन्मभेदेनावस्थाभेदेन कायव्यूहस्थले च नानाशरीरसत्त्वेपि न क्षतिः । एकस्यैव मनसः पूर्वपूर्वजन्मार्जितधर्माधर्मद्वारा सकलशरीरप्रयोजकत्वात् । तथा च एकैकात्मा यत्किंचिन्मनोविशिष्टशरीरावच्छिन्नभोगवत्त्वे सति
|
तादृशशरीरानवच्छिन्नभोगवद्भिन्नः इति
वाक्यार्थः ( वाक्य ० १ पृ० ५ - ६ ) । अथवा एतच्छरीरावच्छिन्नभोगवान् समानकालिकयोगजधर्माद्यजन्यशरीरावच्छिन्नभोगवद्भिन्नः इति ( नील० १ पृ० ११ ) । - तथा स जीवात्मा सर्वत्र सर्वशरीरावयवेषु कार्यस्य ज्ञानादेः उपलम्भाद्विभुः । जीवस्याणुत्वाङ्गीकारे कायव्यूहस्थले योगिनः सुखादिसाक्षात्कारानुपपत्तिरतो विभुत्वमङ्गीकर्तव्यम् (नील० १ पृ० १९ ) । विभुत्वान्नित्योसौ व्योमवत् (त० भा० प्रमे ० पृ० २५ ) (वै० ३।२।५ ) । जीवस्यानित्यत्वाङ्गीकारे कृतस्य कर्मणो हानेः अकृतस्याभ्यागमस्य च प्रसङ्गः । अतस्तस्य नित्यत्वमङ्गीकर्तव्यम् ( त० दी० १ पृ० ११ ) । तथाच तर्कसंग्रहादायुक्तम् जीवः सुखदुःखवैचित्र्यान्नानाभूत एव प्रतिशरीरं भिन्नः विभुर्नित्यश्चेति ( त० सं० ) ( त० भा० पृ० २४ ) ( सि० च० १ पृ० १२ ) (वै० ३।२।५ ) ( प्र० प्र० प्र० पृ० १० ) । जीवो विभुः इति सांख्यनैयायिकवैशेषिकपातञ्जल मायावादिवेदान्तिन आहुः । अणुपरिमाणो नानाविधश्च जीव इति रामानुजीयमाध्वादयो वैष्णवाः । अत्र श्रुतिः बालाप्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इति । शङ्खस्मृतिरपि बालाप्रशतशो भागः ३८ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org