________________
२८६
न्यायकोशः। पाषाणादीनां जडत्वम् । २ वेदग्रहणासामर्थ्य जडत्वमिति धर्मज्ञाः ।
३ मन्दबुद्धित्वमिति नीतिज्ञाः । ४ मूर्खत्वं चेति काव्यज्ञा आहुः । जनकम्-[ख] कारणवदस्यार्थीनुसंधेयः। कारणत्वं च द्विविधम् । स्वरूप
योग्यत्वम् फलोपहितत्वम् । आद्यं यथा घटं प्रत्यरण्यस्थस्यापि दण्डादेर्जनकत्वम् । द्वितीयं यथा इच्छां प्रति ज्ञानस्य जनकत्वम् । स्वरूपयोग्यत्वं च जनकतावच्छेदकधर्मवत्त्वम् । स च धर्मो घटं प्रति दण्डः कारणमित्यत्र दण्डत्वादिः । फलोपहितत्वं चाव्यवहितपूर्ववृत्तित्वसंबन्धेन फलविशिष्टत्वम् । [ख] उत्पत्तिप्रयोजकत्वम् । यथा जन्यानां जनकः कालः
( भा० प० श्लो० ४६ ) इत्यादौ । जननम्- १ उत्पत्तिवदस्यार्थीनुसंधेयः । २ जन्म । ३ आविर्भावः ।
यथा यदैव पूर्वे जनने शरीरम् ( कुमार० स० १ श्लो० ५३ ) इत्यादौ । ४ दीक्षितस्य यज्ञादिषु दीक्षादिसंस्कारविशेष इति याज्ञिकाः । अत्र श्रुतिः पुनर्वा एतमृत्विजो गर्भ कुर्वन्ति ये दीक्षयन्ति इत्यादिः ( वाच० )। स्मृतिरपि मातुरधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ ( मनुः अ० २ श्लो० १६९) इति । ५ मत्राणां मातृकावर्णादुद्धारो जननं स्मृतम् ( सर्व० सं० पृ०
३६९ पात० )। जन्म-[क] शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः ( वात्स्या०
१।१।२)। अत्रोच्यते अण्डजोद्भिजसंस्वेदजरायुजमथापि वा। चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्षणम् ॥ ( भा० आनु० अ० ४२) इति । [ख] देहेन्द्रियमनोबुद्धिवेदनाभिः संबन्धः ( वात्स्या० १ १।१९) ( वै० उ० ६।२।१५)। [ग] विशिष्टशरीरसंबन्धः ( गौ० वृ० १।१।२ ) । [घ] विजातीयशरीराद्यप्राणसंयोगः (गौ० वृ० १।१।१९)। शरीरप्राणसंयोग आद्यत्वं च स्वसजातीयशरीरवृत्तिप्राणसंयोगध्वंसानधिकरणत्वम् (राम० १ पृ० २० )।। ङ] आद्यशरीरपाणसंयोगः ( दि. १ पृ० २० )। यथा अस्मदादीनां जन्म । शरीर आद्यत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् । शरीरप्राण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org