________________
२५४
न्यायकोशः। क्षिप्तम्-तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तम् ( सर्व० सं०
पृ० ३५४ पात० )। क्षुद्रम्-मृद्भाण्डासनखट्टास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च
क्षुद्रं द्रव्यमुदाहृतम् ॥ ( मिता० २।२७५ )। क्षुपः-करवीरादयः सरलप्रायाः ( मिता० २।२२९)। क्षेत्रम्-शरीरम् । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं
प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ (गीता १३॥१)। क्षेत्रज्ञः-जीवात्मा । शरीरसंबन्धेन ज्ञानवान् । यथा अहम् त्वम् इत्यादि ।
क्षेत्रं शरीरम् आत्मत्वेन जानातीति क्षेत्रज्ञ इति व्युत्पत्तिः । क्षेमः-१ [क] सिद्धस्य रक्षणम् ( दि० गु०)। [ख] लब्धस्य रक्षणम् ( आ० त० )। यथा उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये (याज्ञ ० ) इत्यादौ।२ विद्यमानसत्ताकस्य वस्तुनः खाधिकरणे स्वविशिष्टबुद्धिनियामकसंबन्धविशेषव्यवस्थापनम् । यथा दुःखात्यन्ताभावस्य मोक्षत्ववादिमते अत्यन्ताभावस्याजन्यत्वेपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधिकरणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूपसंबन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी (क्षेमनिर्वाह्या ) तत्त्वज्ञानसाध्यता । यथा वा कृतिसाध्यत्वस्य विध्यर्थत्वमते एकादश्यामुपवसेत् इत्यादावहोरात्रभोजनाभावस्य क्षैमिकं ( क्षेमनिर्वाह्यम् ) कृतिसाध्यत्वम् इति ( वाच० )। ३ कुशलमिति काव्यज्ञा वदन्ति ।
खञ्जः--सहजसंस्थानशून्यचरणवान् । यथा पादेन खञ्ज इत्यत्र । अत्र
विकृतपादवृत्तित्वविशिष्टं यत् सहजसंस्थानशून्यत्वं तद्वञ्चरणवान चरणविकारप्रयुक्तस्य यथोचितसंस्थानवैधुर्यस्याश्रयीभूतचरणवान् इति वा बोधः । एवम् श्रोत्रेण बधिरः कायेन वामनः इत्यादावप्युक्तैव रीतिः ( श० प्र० श्लो० ९२ पृ० ११८ )। खञ्जलक्षणं च भावप्रकाश उक्तम् । यथा वायुः कट्याश्रितः सक्नः कण्डरामाक्षिपेद्यदा । खञ्जस्तदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org