________________
२५२
न्यायकोशः ।
अत्रोक्तं भावप्रकाशे कफस्यैतानि नामानि क्लेदनश्वावलम्बनः । रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः ॥ इति ( वाच० ) । [ख] क्षरणम् । स्वेद इति यावत् ( दि० १ पृ० ७० ) । [ग] जलविकारविशेषः । यथा तदञ्जनक्लेदसमाकुलाक्षम् ( रघु० ७/२७ ) इत्यादौ ( वा० ) । क्लेशः -क्लेशाः पुनः पञ्चधा प्रसिद्धा अविद्यास्मितारागद्वेषाभिनिवेशा: ( पात० सू० २.३ ) ( सर्व ० सं० पृ० ३५८ पात ० ) । सांसारिक विविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति केशाः (सर्व० सं० पृ० ३६५ पात ० ) । क्षणः – १ ( कालः ) [ क] वर्तमानार्थग्राहित्वेन स्त्रोत्पत्त्याश्रयः क्षणः ( मू०म० १ ) । तल्लक्षगं तु क्षणत्वमेव । तच्च स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वम् स्ववृत्तिध्वंसप्रतियोगि प्रतियोगि कयावद्धं स विशिष्ट समयत्वम् स्ववृत्तियावद्धुंसविशिष्टसमयत्वम् स्ववृत्तियावदभावविशिष्टसमयत्वम् स्वस्व पूर्ववर्तियावत्पदार्थ विशिष्टसमयत्वं वा । स्वपूर्वत्वं च स्वाधिकरणयावत्कालवृत्तिध्वंसप्रतियोगित्वम् । जन्यमात्रस्य कालोपाधित्वाददोषः (दीधि० २) (प० म० ) । अथवा स्ववृत्तियावद्धं सविशिष्टत्वम् (ग० सार्वभौमपक्षता० ) । [ख] स्ववृत्तिध्वंस प्रतियोगि काला वृत्तित्वविशिष्टस्ववृत्तित्ववान् । अत्र स्वपदद्वयम् यत्समयवृत्तित्वमुत्पत्तित्वेनाभिमतं तत्समयव्यक्तिपरम् | कालावृत्तित्वं च तादृशकालवृत्तित्वसामान्याभाव: (राम ० १ काल० पृ० ९२ ) । इदं च महाप्रलये क्षणव्यवहारो नास्ति इत्यभिप्रेत्योक्तम् । [ग] स्ववृत्तिध्वंसप्रतियोगिप्रतियोगि कयावद्धं स विशिष्ट समयः । तादृशसमयः चरमध्वंस एवेति भाव: ( दि० १ काल० पृ० ९२ ) । अयं क्षणो महाप्रलयव्यवहारविषयो भवतीति ज्ञेयम् । [घ] स्वावेयपदार्थप्रागभावानाधारः समयः ( आत्मत० शिरोम ० ) । [ ङ ] निमेषक्रियावच्छिन्नकालस्य चतुर्थभागः क्षण: ( चि० ४ ) । यथा क्षणादिः स्यादुपाधितः ( भा० प० श्लो० ४७ ) इत्यादौ । [ च ] त्रिंशत्कलारूप: कालांशः । यथा स्थिताः क्षणं पक्ष्मसु ताडिताधराः ( कुमा० ५२४ ) इत्यादौ । [ छ ] अवसरः । यथा स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इत्यादौ ।
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org