SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। त्वात् देवदत्तो विहगश्च स्वात्मानं गच्छति प्रयाति च इति प्रयोगापत्तिः। तद्वारणाय परसमवेतक्रियाजन्यत्वम् क्रियाजन्यफले ( मतभेदेन धात्वर्थतावच्छेदकफले वा ) विशेषणत्वेन निवेश्यम् । इत्थं च द्वितीयादेः क्रियान्वयि परसमवेतत्वमप्यर्थः । परत्वं च स्वप्रकृत्यर्थापेक्षया । स्वपदेन द्वितीया गृह्यते । इदं च कर्मसामान्यलक्षणम् इति ज्ञेयम् । अत्र प्राञ्चो नैयायिकाः क्रियाजन्यफलशालि कर्मेत्याहुः । नव्यास्तु धात्वर्थतावच्छेदकफलशालि कर्मेपि प्राहुः (ग० व्यु० का० २ पृ० ३६-३८, का० ४ पृ० ९३ ) । फलशालित्वं च फलानुयोगित्वम् । [ग] फलाश्रयतयेष्टम् (ग० व्यु० का० ४ पृ० ९३ )। [घ] शशधरादयस्तु कारणव्यापारविषयः कर्मेत्याहुः ( चि० १) ( का० व्या० पृ० ३)। यथा व्रीहीन्प्रोक्षतीत्यादौ व्रीहिः कर्म (न्या० सि० दी० पृ० १९)। यथा वा चक्षुषा घटं जानातीत्यादौ घटः कर्म । कचित् विषयः कर्म ( त० प्र०)। यथा भाविनं घटं जानातीत्यादौ घटः कर्म (गौणम् ) । यथा वा मातुः स्मरतीत्यादौ माता कर्म ( म० प्र० पृ० ४, ६)। अत्रेदं बोध्यम् । नैयायिकमते सविषयार्थकधातुसमभिव्याहारे विषयत्वात्मकं गौणं कर्मत्वम् कर्तुरीप्सिततमं कर्म (पा० सू० १।४।४९) इत्यनेन बोध्यते । तथा च घटविषयताशालिज्ञानाश्रयतावान् मातृविषयकस्मरणवान् इति बोधः । वैयाकरणमते तु अत्रापि ज्ञानानुकूलव्यापारस्य स्मरणानुकूलव्यापारस्य च धात्वर्थत्वेन मुख्यमेव कर्मत्वं बोध्यते नतु गौणम् । तथा च व्यापारमुख्यविशेष्यक एव सर्वत्र बोधः इति । दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्यर्थ इति उक्तस्थले मुख्यमेव कर्मत्वम् इत्याह ( श० प्र० पृ० १०१ )। कचित् प्रतियोगि कर्म । यथा घटं नाशयतीत्यादौ घटः कर्मेति ( का० व्या० पृ० ३)। कर्म द्विविधम् । प्रधानकर्म अप्रधानकर्म चेति । तत्राद्यम् गां दोग्धि पय इत्यादौ पयः । द्वितीयं तु तत्रैव गौः इति ( ल० म० सुब० पृ० ९१ ) । अत्र गोरपादानत्वाविवक्षायां अकथितं च ( पा० सू० १४५१ ) इत्यनेन कर्मत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy