________________
२०७
न्यायकोशः। प्रत्यवायश्रवणान्नित्यत्वम् । पुत्रादिकामनाश्रवणात्काम्यत्वमपि संगच्छते (त० प्र० ख० ४ पृ० १०३ )। मीमांसकनये नित्यम् नैमित्तिकम् काम्यं चेति त्रिविधं कर्म (व्यासस्मृ० )। तत्र यदकरणे प्रत्यवायस्तन्नित्यम् । यथा संध्योपासनादि । अनियतनिमित्तकं नैमित्तिकम् । यथा ग्रहणश्राद्धादि । तत्र राहूपरागस्यानियतस्यैव निमित्तत्वात् । अत्र नित्यत्वं च प्रत्यवायसाधनीभूताभावप्रतियोगित्वम् । नियतनिमित्तकत्वमिति यावत् । संध्योपासनादौ प्रातरादिसमयस्य नियतस्यैव निमित्तत्वात् (म० प्र० ४ ० ६० )। अथवा फलकामनानधीनकर्तृकत्वम् (त० प्र० ख० ४ पृ० १०३ ) । नैमित्तिकत्वं च निमित्तनिश्चयाधीनकर्तव्यताकत्वम् । यथा वा जातेष्ट्यादौ ( वाच० )। काम्यं तु फलकामनाधीनकर्तव्यताकं कर्म । यथा स्वर्णोद्देशेन कृतं अश्वमेधयागादि (म० प्र० ४ पृ० ६०)(वाच०); सात्त्विकराजसतामसभेदेन त्रिविधं कर्मेति वेदान्तिनः (गीता १८।२३-२५)। वेदान्तिनां मते कर्म पुण्यपापजनकम् । तच्च द्विविधम् संचितम् प्रारब्धं चेति । तत्र अनारब्धविपाकः कर्माशयः संचितम् । तच्च ज्ञानामिना दह्यते । आरब्धविपाकश्च कर्माशयः प्रारब्धम् । तच्चोपभोगेनैव नश्यति इति बोध्यम् । इदं च शुक्लकृष्णकृष्णशुक्लभेदेनापि त्रिविधम् । तत्राद्यम् हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि । द्वितीयम् शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि । तृतीयम् हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशुयागादि (वाच०)। ३ [क] कर्तुरीप्सिततमं कर्म (१।४।४९ पाणि०) इत्यादिभिः सूत्रैर्यस्य कर्मसंज्ञा विधीयते तत् । [ख] परसमवेतक्रियाफलशालि (चि० १.)। यथा देवदत्तो प्रामं गच्छतीत्यादौ प्रामः कर्म । यथा वा . भूमि प्रयाति विहगो विजहाति महीरुहमित्यादौ भूमिमहीरुहौ कर्मणी ( का० व्या० पृ० ३) । यथा वा अन्नवद्विषं भुत इत्यादी विषम् । अत्रेदं बोध्यम् । ग्रामं गच्छति देवदत्तः भूमिं प्रयाति विहग इत्यादौ संयोगानुकूलस्पन्दात्मकव्यापारो गम्धातोर्याधातोश्वार्थः । तथा च संयोगात्मकफलस्य द्विष्ठत्वेन देवदत्तविहगात्मककादावपि वृत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org