________________
१९६
न्यायकोशः ।
औदार्यम् – सन्मार्गवर्तिनी बुद्धि: ( न्यायक० पृ० १० ) । दानशीलत्वम् इति काव्यज्ञा आहुः ।
I
औपनिधिकम् — वासनस्थमनाख्याय हस्ते न्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ( याज्ञ० २।६५ ) ।
औपशमिकः —– अनुदयप्राप्तिरूपे कर्मण उपशमे सति जीवस्योत्पद्यमानो भावः । यथा पङ्के कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादयः पतिते जलस्य स्वच्छता ( सर्व० सं० पृ० ६८ आई० ) । औपादानिकः — अनुपपत्तिज्ञानसहकृतशब्दजनितो बोधः । अत्र व्युत्पत्तिः । उपादानम् अनुपपत्तिज्ञानम् । तत्सहकृतशब्देन जनितो बोधः औपादा.निकः इति ( तर्कप्र० ख० ४ पृ० ११२ ) । यथा प्राभाकराणां मते स्वर्गकामो यजेत इत्यादिवाक्यात् स्वर्गसाधनं स्वर्गकामनियोज्यको यामः स्वर्गकाम कृतिसाध्यः इत्यौपादानिको बोध उत्पद्यते इत्यादौ ग्रन्थे औपादानिकशब्दस्यार्थः । केचित्तु अनुमित्यात्मको बोध औपादानिक इत्याहुः ( तर्कप्र० ख० ४ पृ० ११३ ) ।
औपाधिकः – उपाधिकृत औपाधिकः । यथा न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ( सां० सू० ) इत्यादौ जीवस्य बन्ध औपाधिकः न नैमित्तिकः नापि तात्त्विक इत्यत्र ( वाच०) । यदुपाध्यवच्छिन्नशक्तिमन्नाम तदौपाधिकम् । यथा आकाशपश्वादि ( श० प्र० पृ० २५-२६ ) । औपाधिकी - (संज्ञा ) या अनुगतोपाध्यवच्छिन्न संकेतवती संज्ञा सा । यथा भूतदूतादिः । अत्र सा हि संज्ञा सचेतना वृत्तिविशेषगुणवत्त्वम् वार्ताहारकत्वम् इत्याद्यनुगतोपाधिपुरस्कारेणैव प्रवर्तते ( श० प्र० पृ० २५ ) । औलूक्यः — वैशेषिकसूत्रकारः कणादः । अत्र व्युत्पत्तिः उलूकस्य तन्नामकस्य ऋषेरपत्यमौलूक्यः इति ( वाच० ) । विस्तरस्तु कणादशब्दे
द्रष्टव्यः ।
औष्ण्यम् – उष्णस्पर्शः ( राम ० १ १०७० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org