________________
न्यायकोशः।
१२९ आरब्धकर्माङ्गम् कर्मार्थितया शिष्टैस्तत्पूर्व क्रियमाणत्वात् प्रयाजादिवत् (चि० पृ० १९) । इत्यादावारब्धकर्म । चरमवर्णसमूहो नाम चरमवर्णपर्यन्तवर्णसमूहः । केचित्तु कण्ठताल्वाद्यभिघातदृष्टप्रतिबन्धकाभावादिरेवारब्धकर्मेत्याहुः । ३ वेदान्तिनस्तु फलदानाय संमुखः पुण्यपापान्यतरात्मकः अदृष्टविशेषः । यथा प्रारब्धकर्मणो भोगादेव परिक्षय इत्यादौ
प्रारब्धकर्म इति वदन्ति । आरम्भः-१ आद्यप्रवृत्तिः । यथा अथेदमारभ्यत इत्यादौ आङपसर्गपूर्वकरभधातोरर्थः । २ अप्रवृत्तस्याद्या प्रवृत्तिः । यथा सृष्ट्यारम्भः । ३ कर्तव्यकर्मचिकीर्षेति मीमांसकाः (मू० म० १)। ४ औत्सुक्यमारम्भ इति नाटकालंकारज्ञा वदन्ति । तदुक्तं प्रतापरुद्रे औत्सुक्यमात्रमारम्भः परिरम्भाय भूयसे इति । ५ ज्ञातुः ईप्साप्रयुक्तस्य सुखसाधनावाप्तये
समीहाविशेषः ( वात्स्या० १।१।१ प्रस्तावना )। आरादुपकारकम्-द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म ( मी० न्या०
पृ० ३६ )। आराधनम् - [क] गौरवितवृत्तिनिष्ठप्रीतिहेतुभूता क्रिया (त० प्र० २) (ग० शक्ति० ) । अत्र गौरवितवृत्तित्वमुपलक्षणम् ( कृष्ण० श० )। गौरवं त्वाराध्यत्वावगाही ज्ञानप्रभेदः । अयं ज्ञानप्रभेद एव भक्तिरित्युच्यते (श० प्र० पृ० ९५ )। [ख] गौरवितप्रीतिहेतुक्रिया ( कि० व० ४)। [ग] गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया । यथा पितरमाराधयति उपास्ते पूजयतीत्यादौ धात्वर्थः । अत्रेदं बोध्यम् । परमात्मानमाराधयतीत्यादौ गौरवप्रयुक्तक्रियामात्रमाराधनम् । तदेव लक्षणया धात्वर्थः । तेन न परमात्मनः प्रीतिविरहादयोग्यत्वापत्तिः । अत्रायं विशेषो ज्ञेयः। पित्रादिसेवायाश्च मत्रकरणकत्वाभावान्न तत्र पितरं यजते इत्यादिकः प्रयोगः । अत्र धात्वर्थनिविष्टयोर्गौरवप्रीत्योः क्रमेण विषयत्वाधेयत्वाभ्यां पित्रादेरन्वयः । तेन पितृगोचरगौरवप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वान् इत्येवं बुद्धिः ( श० प्र० पृ० ९५ )। १७ न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org