________________
૧૮
न्यायकोशः।
स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनम् । यथा इहासीतेति अत्र उपवेशनादिव्यापारे इष्टसाधनताज्ञानात्प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति इति बोध्यम् । यद्वा अनुज्ञातुः प्रवृत्तप्रयोजनस्येतरप्रवृत्तिप्रतिबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथा आरब्धं कुरुत तत्कुरुष्व यथाहितमित्यादावामन्त्रणं लोडर्थः इत्याहुः (वै० सा० द०
पृ० १३१-१३२)। आमिक्षा—तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्
इति श्रूयते । तत्र घनीभूतः पयःपिण्ड आमिक्षा जलं वाजिनम् · (जै० न्या० अ० २ पा० २ अधि० ९)। आम्नायः-१ सम्यगभ्यासः। अत्र सम्यक्त्वं च नियमधारणपूर्वकत्वं गुरु
मुखश्रवणपूर्वकत्वं चेति बोध्यम् (वाच०)। २ सम्यक् पाठः। ३ वेदः । आयतनम्-१ अवच्छेदकम् ( नील० पृ० ७ )। यथा आत्मनो भोगा
यतनं शरीरमित्यादौ । २ प्रतिमेति वैदिका वदन्ति । यथा देवतायतनानि हसन्ति रुदन्तीत्याद्याथर्वणश्रुतौ । ३ आश्रयः स्थानं वेति बौद्ध
काव्यज्ञा आहुः। आयीभावः—विद्यमान एव अकारस्योपरितन इकारः सामप्रसिद्ध्या
प्रक्रियया वृद्धः सन्नैकारो भवति । तस्य संध्यक्षरत्वादकारः पूर्वभागः ईकार उत्तरभागः । तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्यते ( जै० न्या० अ० ९ पा० २ अधि० ९)। आयोजनम्-१ कर्म । यथा कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुते
रित्यादौ ( कु० ५।१ ) ( दि० १ पृ० १९)। २ व्याख्यानम् । यथा वेदास्तदर्थविदायोजिताः इत्यादौ । व्याख्याता इत्यर्थः । . आरब्धकर्म–१ तत्सामग्रीसंपादनम् ( मू० म० १ पृ० २४ ) । घटादिस्थले दण्डचक्रादिरूपसामग्रीसंपादनम् । २ चरमवर्णसमूहो ग्रन्थः (मू० म० १ पृ. २३) । यथा ग्रन्थस्थले तच्चेदम् मङ्गलम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org