________________
न्यायकोशः। आकाङ्क्षाविरहात् ( त० कौ० ४ पृ० १७ ) ( त० सं० )। तदर्थस्तु यस्य येन विना स्वार्थान्वयाननुभावकत्वम् तस्य तत्पदसंनिधानम् इति (चि०)। [ख] स्वरूपयोग्यत्वे सत्यजनितान्वयबोधजनकत्वम् ( तर्का० ४ पृ० १० ) । तेन घटः कर्मत्वम् आनयनम् कृतिः इत्यत्र नान्वयबोधः । स्वरूपायोग्यत्वात् । तथा अयमेति पुत्रो राज्ञः । पुरुषोपसार्यताम् । इत्यत्र राज्ञः पुरुषः इति नान्वयबोधः । पुत्रेण जनितान्वयबोधकत्वात् ( तर्का० ४ पृ० १०)। [ग] यत्पदं यत्पदेन सह यादृशानुभवजनकं भवेत् तत्पदस्य तत्पदसमभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा । भवति हि नामपदम् उत्तरवर्तिविभक्तिपदेनैव सहान्वयबोधकम् । अतस्तत्समभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा । अत एव घटः कर्मत्वम् आनयनम् कृतिः इति वाक्यात् घटमानय इतिवत् न घटकर्मकानयनानुकूलकृतिमान् इति बोधः । आकाङ्क्षाविरहात् ( न्या० म० ४ पृ० २१)। [घ] पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् (तं०सं० ४ ) (कु०) (मु० ४ पृ० १८८ )। तदर्थश्च यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पदत्वम् (नील० ४ पृ० ३२) (मु०)। [3] यस्य पदस्य येन पदेन विनान्वयबोधजनकत्वं नास्ति तस्य पदस्य तेन पदेन समभिव्याहार आकाङ्क्षा (त० कौ० २ पृ०१६ ) (प्र० प्र०)। यथा घटमानयेत्यादौ क्रियापदकारकपदयोराकाङ्क्षा । अत्र कारकपदस्य क्रियापदेन विना घटकर्मकमानयनम् इत्यन्वयबोधजनकत्वाभावात्कारकपदस्य क्रियापदेन सहाकाङ्क्षा । एवं क्रियापदस्य कारकपदेनापि सह बोध्या (प्र० प्र० ) ( त० कौ० पृ० १६-१७ ) । वस्तुतस्तु प्रत्यये प्रकृत्युत्तरत्वमेवाकाङ्क्षा (मु० ४ पृ० १८८ ) । एवं वैयाकरणमते विभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना परस्परस्य न स्वार्थान्वयानुभावकत्वम् ( वाच० )।[च] प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविरहः ( न्या० म० ४ पृ० २२ )। अतो घटमानयति इति पदं एकदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org