________________
२७
न्यायकोशः। अव्ययीभावः-(समासः) अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वम्।
पूर्वपदार्थप्रधानोव्ययीभाव इति लक्षणं तु प्रायिकं बोध्यम् । तथा हि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः। सूपप्रतीत्यव्ययीभाव उत्तरपदार्थप्राधान्यादव्याप्तिश्च । अतो नेदं सिद्धान्तभूतं लक्षणमिति ( वैयाकरणभू० ) ( श० पृ० ३१ )। अर्धपिप्पलीत्यादौ तत्पुरुषे पूर्वपदार्थप्राधान्यादतिव्याप्तिरप्यस्मिन् लक्षणे बोध्या । अनव्ययमव्ययं भवतीत्यव्ययीभावः । अव्ययीभावस्याव्ययत्वम् अव्ययीभावश्च ( पाणि० सू० १११।४१ ) इति सूत्रेण बोध्यते। अव्यवधानम्-तधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वम् । यथा क्रमि
कपदार्थोपस्थितीनामव्यवधानम्। अथ वा तद्धंसाधिकरणक्षणोत्पत्तिकत्वम्। अव्यवहितत्वम्-तत्पूर्वकालीनध्वंसाप्रतियोगित्वम् ( ग० २ पक्ष
पृ० ३८) । यथा अनुमित्यव्यवहितपूर्ववृत्तिसिद्धिभिन्नसिद्धथभावः पक्षता ( दीधि०) इत्यत्रानुमित्यव्यवहितपूर्वक्षणे सिद्धावेव वा विशेषणी
भूतमव्यवहितत्वम् । अव्यवहितपूर्वत्वम्- [क] तदुत्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगित्वम् (दीधि० पक्ष० पृ० १२९) । अत्र तत्पदेन क्षणद्वयावस्थायि ज्ञानादिकं ग्राह्यम् । विग्रहस्तु तस्य ज्ञानादेः उत्पत्तिक्षणे उत्पत्तिर्यस्य स. तदुत्पत्तिक्षणोत्पत्तिकः । सचासौ वंसश्च । तस्य प्रतियोगि । तस्य भावः इति । ज्ञानाद्युत्पत्तिक्षणे यस्य ध्वंस उत्पद्यते तत्त्वमिति विग्रहार्थः । इदं लक्षणं प्रागभावानभ्युपगन्तृनयेपि संगच्छते इति विज्ञेयम् (ग० पक्ष० पृ० ४४) । [ख] तत्प्रागभावाधिकरणकालप्रागभावानधिकरणत्वे सति तत्प्रागभाववत्त्वम् (ग० पक्ष० पृ० ४१ )। अत्र सत्यन्तदलेन अव्यवधानम् विशेष्यदलेन तु पूर्वत्वं बोध्यत इति विज्ञेयम् । इदमव्यवहितपूर्वत्वं च प्रागभावाङ्गीकर्तृपक्ष एव संगच्छत इत्यवधेयम् । यथा विशेषणज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्वत्वम् । यथा वा परामर्शस्यानुमित्यव्यवहितपूर्वत्वम् । न्या० को. १३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org