________________
न्यायकोशः। वैश्वदेवं चरुं पिशङ्गी पष्ठाही दक्षिणा । मैत्रावरुणीमामिक्षां वशा दक्षिणा । बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा ( जै० सू० वृ० २।३।३ )। अव्यभिचारः-साध्याभाववद्वृत्तित्वं व्यभिचारः । तस्याभावः । अव्ययम्-[क] संकेतसंबन्धेनाव्ययपदवत् । यथा स्वः इत्याद्यव्ययम् ।
तत्र कानिचिदव्ययानि सार्थमुदाह्रियन्ते । लक्षणवीप्सेत्थंभावेष्वभिर्भागे परिप्रती। अनुरेषु सहार्थे च हीने उपश्च कथ्यते। समया निकषा चाव्ययं सामीप्यार्थकम् । तेन तद्योगे समया ग्राममित्यादौ ग्रामस्य समीपम् इत्यन्वये ग्रामावधिकत्वं तत्प्रतियोगिकत्वं वा द्वितीयया बोध्यते । विद्यामृते अन्तरेणान्तरा विना वा नरः शोच्य इत्यादावृतेप्रभृत्यव्ययानामत्यन्ताभावस्तद्वैशिष्ट्यं वार्थ इति विद्यात्यन्ताभाववान् नरः शोच्य इत्यन्वये अत्यन्ताभावेन्वितं प्रतियोगित्वम् । गगनमृते द्रव्यं न शब्दवदित्यादौ तूक्ताव्ययानां भेदोप्यर्थः । तेन गगनभिन्नद्रव्यं न शब्दवत् इत्याकारकस्तत्र बोधः । हा पुत्रमित्यत्र हाव्ययस्यार्थे कष्टे द्वितीयान्तेन पुत्रसमवेतत्वं बोध्यते । धिक् पुत्रमित्यत्र धिगर्थगर्दायां पुत्रविषयित्वम् । उपर्युपरि गृहं पताकेत्यत्र द्विरुक्तस्योपरिनिपातस्य संनिकृष्टोद्वभागार्थकत्वेन गृहस्य संनिकृष्टोर्ध्वभागे पताका इत्यर्थः । अधोधो मेघमम्भः अध्यधि शिखरं घन इत्यत्राप्युक्तदिशैवान्वयः । द्विरुपर्योधीनां सामीप्यवाचितायां तद्योगे द्वितीयानुशिष्टेः (श० प्र० पृ० ११७ ) । अत्र प्रमाणम्-उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयानेडिनान्तेषु ततोन्यत्रापि दृश्यते ॥ इति । नदी यावन्मम पुरम् गृहं यावद्धनं तवेत्यत्र यावदित्यव्ययस्य मर्यादा अभिविधिश्च क्रमेणार्थः । तेन नदीपर्यन्तं मत्पुरम् गृहाभिव्याप्तं त्वद्धनम् इत्याकारस्तत्र बोधः (श० प्र० पृ० ११६-११७) इत्यादि तत्तद्न्थाज्ज्ञेयम् विस्तरभयान्नोच्यत इति । [ख] सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति शाब्दिका आहुः । अत्रायं नियमः-नियताः प्रयोगा हि केषांचिदव्ययानामिति ( न्या० म० ख० ४ पृ० १४)। अत्राधिकं तु नशब्दव्याख्यानावसरे द्रष्टव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org