________________
न्यायकोशः। पर्वतो वह्निमान् इत्यनुमितिः । अत्र नवीनमते पक्षतावच्छेदकव्यापकत्वं साध्ये साध्यसंबन्धे वा संसर्गतया संसर्गतावच्छेदकतया च यथाक्रम भासते। अतोवच्छेदकावच्छेदेनानुमितेर्न पर्वतत्वाद्यवच्छिन्नवह्निमान् पर्वतः इत्याकारकता इति बोध्यम् । अत्रेदमवधेयम् । यत्र देशकालयोः पक्षतावच्छेदकता यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालावच्छिन्नो घटो गन्धवानित्यादौ च तत्र स्वरूपसंबन्धरूपावच्छेद्यावच्छेदकभावावगाहिन्येवानुमितिर्भवति । यत्र तु देशकालमिन्नानां पक्षतावच्छेदकता यथा पर्वतो वह्निमानित्यादौ पृथिवी रूपवतीत्यादौ च तत्र व्याप्यव्यापकभावरूपावच्छेद्यावच्छेदकभावावगाहिन्यनुमितिर्भवतीति
(ग० पक्ष० पृ० २०)। अवदानम् – हविष्वप्रयोजकः संस्कारः (जैमिन्या० १०१७ अधि०१)। अवधानम् -चित्तस्य विलक्षणः संबन्धविशेषः । तहिविधम् । अनुपेक्षणी
यत्वं विषयान्तरसंचारराहित्यं च ( त० प्र० २)। यथा शिष्याव
धानाय चिकीर्षितं प्रतिजानीते इत्यादौ ( म०प्र० १५० ३)। अवधारणत्वम् -एकाकारावगाहिज्ञानत्वम् इति वेदान्तिन आहुः (प्र.
प० टी० वेदेश० पृ० ६)। अवधारणम् -तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौ० वृ०१।११४०)। यथा घटे अयं घट इति घटत्वाभावाप्रकारकं घटत्वप्रकारकं ज्ञानं निर्णयात्मकम् अर्थस्यावधारणम् । अत्रावधारणत्वं च [१] निश्चयनिष्ठो विषयताविशेषः ( मू० म० १)। [२] अवधारणत्वं न निर्णयत्वम् किं तूत्कटनिश्चयत्वम् । औत्कट्यं च विषयताविशेष इति मिश्राः (ग० सत्प्र० पृ० १७-१८ ) । अयं भावः-तन्मते व्याप्यदर्शनाधीनज्ञानानन्तरमेव अवधारयामि इत्यनुव्यवसायोदयेन व्याप्यदर्शनात्मकविशेषदर्शनजन्य एव प्रत्यक्षेनुमित्यात्मके च ज्ञाने अवधारणत्वं स्वीक्रियते न तु निश्चयसामान्य इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org